Book Title: Devendra Narkendra Prakaranam
Author(s): Munisundarsuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 94
________________ देवेन्द्रप्रकरणम् । ( ७१ ) 1 न्यसेत् ' आदिं ' पञ्चलक्षणम्, ततः ' अन्तिमधनं ' सौधर्मप्रस्तटगतविमानायं लभ्यते । तदेव यदा आदियुतं सद्गच्छार्द्धगुणं क्रियते 'तुः' पुनरर्थः तदा 'सर्वधनं सर्वप्रस्तट श्रेणिगतविमानावासाग्रं संपद्यते । अयमत्र परमार्थः गच्छोत्तरयोः संवर्गे जाते द्वे शते अष्टचत्वारिंशे २४८, अत्र च चतुष्टयलक्षणे उत्तरेऽपनीते पञ्चकलक्षणे चादौ प्रक्षिप्ते लब्धे द्वे शते एकोनपञ्चाशदधिके २४९, एतत्सर्वार्थसिद्धयाख्यप्रथमप्रस्तटापेक्षयाऽन्तिमो यः सौधर्माभिधानप्रथमकल्पे प्रथमप्रस्तटस्तत्र विमानाग्रं भवति । एतदेवादिना पञ्चलक्षणेन युक्तं सद्गच्छार्डेनैकत्रिंशल्लक्षन यदा गुण्यते तदाऽऽवलिकागतसर्वविमानाग्रं संपद्यते तच्चेदम्अष्टसप्ततिशतानि चतुःसप्तत्यधिकानि ७८७४ ॥ १४९ ॥ यदा कश्चित्सौधर्मप्रथमप्रस्तटादुपरि गत्वा द्वितीयतृतीयादिप्रस्तटे विमानाअं जिज्ञासति तदा किं विधेयम् ? इत्याह जहि पथडम्म इच्छसि सव्वविमााण सव्वसंखेवं । तं बावद्विविसुद्धं, चउगुणिय सपंचगं पयरं ॥ १५० ॥ 4 ' यत्र ' द्वितीयादौ प्रस्तटे ' इच्छसि' अभिलषसि हे विमान-प्रमाणजिज्ञासो ! ' सर्वविमानानां आवलिकागतलक्षणानां सर्वसंक्षेपं' समुदायसङ्घयां, तत्र किम् ? इत्याह- 'तं इष्टप्रतरं 'द्वाषष्टिविशुद्धं द्वाषष्टेरपनीतं विधेहि, तत्र च यदवशिष्टं तत् 'चतुर्गुणितं' चतुर्भिराहतं तदनु ' सपञ्चकं ' पञ्चकयुक्तं कृत्वा ' प्रतरं ' इष्टप्रतरश्रेणिगतविमानाग्रमवबुध्यस्व । तथाहि यदा कश्चिदिह पञ्चमप्रतरे विमानायं बुभुत्सते तदा तत्सङ्ख्या पञ्चकलक्षणा द्वाषष्टेरपनीयते जाता. सप्तपञ्चाशत् ५७, तस्यां चतुर्भिर्गुणितायां पश्ञ्चकयुक्तायां च लब्वे द्वे •

Loading...

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196