Book Title: Devendra Narkendra Prakaranam
Author(s): Munisundarsuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 167
________________ (१४४) मुनिचन्द्रसूरिविरचितवृत्तिसमेतं पढमेसु पंचवण्णा, एकगहाणी उ जा सहस्सारो। दो दो कप्पा तुल्ला, तेण परं पोंडरीयाई ॥ ३१८ ॥ प्रथमयोईयोर्देवलोकयोः पञ्च-कृष्णनीलरक्तलोहितशुक्ललक्षणाः वर्णाः-चक्षुरिन्द्रियग्राह्या गुणविशेषा येषां ते पञ्चवर्णा विमाना वर्तन्ते । तंदुपरि का वार्ता ? इत्याह-' एकैकहानिस्तु ' एकैकवर्णहानिः पुन-. . वक्तव्या, कियत्दूरं यावद् ? इत्याह-यावत् 'सहस्रारः' अष्टमः कल्पः; . आह किं प्रतिकल्पमेकैकवर्णहानिः ? उत कथञ्चिदन्यथा ?, अन्यथेति ब्रूमः । कुतः ? यतः- द्वौ द्वौ ' सनत्कुमारमाहेन्द्रादिलक्षणौ 'तुल्यौ' सदशवर्णतया समानौ कल्पौ वर्तते । एतदुक्तं भवति-सनत्कुमारमाहे- . न्द्रयोश्चतुर्वर्णाः, ब्रह्मलोकलान्तकयोस्त्रिवर्णाः, शुक्रसहस्रारयोढिवर्णा वि. माना भवन्ति । तदुपरि विधिमाह- तेन' इति ततः-सहस्रारात् 'परं' अग्रत आनतप्रभृतिसर्वार्थसिद्धपर्यन्तानि 'पुण्डरीकाणि' धवलानि शङ्खन्दुकुन्दतुषारहारसमवर्णानीति भावः ॥ ३१८ ॥ संप्रति मानहारम् होइ पमाणं सव्वेसु चेव बत्तीस जोयणसयाई । . सोहम्मादीयाणं, वाहल्लुच्चत्तसहियाणं ॥ ३१६ ॥ . भवति प्रमाणं सर्वेषु चैव विमानेषु द्वात्रिंशद्योजनशतानि, केषाम् ? इत्याह- सौधर्मादीनां ' [ सौधर्म ] देवलोकादीनां 'बाहल्योच्चत्वसहितानां ' योजितपीठवाहल्यप्रसादोच्छ्याणामिति ॥ ३१९॥ इदानीं गन्धद्वारं चशब्दाक्षिप्त (तानि) द्वारान्तराणि चाह१ मत्र " लोहित" स्थाने “हारिद्र" इति भाव्यम् ।

Loading...

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196