Book Title: Devendra Narkendra Prakaranam
Author(s): Munisundarsuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 173
________________ (१५०) मुनिचन्द्ररिविरचितवृत्तिसमेत 'सर्वेषां ' जघन्यमध्यमोत्कृष्टभेदभानां भवनपत्यादिभेदभानां वा 'संस्थानं ' शरीराकारः समाः-शरीरलक्षणानुवर्तनेनाविषमाश्चतस्रोऽस्रयः-देहपार्श्वलक्षणा यत्र तत्समचतुरस्रम् , महान् अर्घः-विशिष्टार्थसाधकत्वसंभावनालक्षणो यस्य तत्तथा तादृग्माहात्म्यं यस्य तन्महार्घमाहात्म्यम् । भवधारणीयशरीरापेक्षमेतत् | उत्तरवैक्रियं पुनः शरीरं नानाविधरूपाणि-समचतुरस्रन्यग्रोधपरिमण्डलादीनि संस्थानानि यत्र. तत्, नानाविधरूपसंस्थानत्वादस्यति ॥३३१॥ संप्रति गन्धद्वारम् - . गंधेण सुरहिगंधा, सुहफासा विम्हयं जणंतहियं । सिंबलिख्यभहिया, अणोवमा अरयलंबिच्छा ॥ ३३२ ॥ . 'गन्धेन' घ्राणेन्द्रियग्राह्यगुणलक्षणेन यदा पर्यालोच्यन्ते तदा किम् ? इत्याह-' सुरभिगन्धाः ' मृगमदकर्पूरागुरुप्रभृत्यि]तिशायिदेहसौगन्ध्यभाजः । अथ स्पर्शद्वारम्-सुखहेतुत्वात्सुखः शुभो वा स्पर्शः शरीरप्रभवो येषां ते सुखस्पर्शाः, 'विस्मयं ' अहो ! किमेतदिति चित्तचमत्कारलक्षणं ' जनयन्ति' वितन्वते । अधिकं ' शेषशुभभावननितविस्मयापेक्षातिरिक्तं दृष्टाः सन्तः, पुनः स्पर्शमेव व्यनक्ति'शाल्मलीरूताभ्यधिकाः' शाल्मलेर्वृक्षस्य यद् रूतं अर्कतूलादिभ्योऽपि सुकुमालप्रकृति ततोऽभ्यधिकसौकुर्मायाः, 'अनुपमाः' रूपलावण्यादिगुणविषयेणाऽप्युपमातुमशक्याः । वर्णकप्रस्तावादपरमप्याह---' अरयलंबिच्छ ' ति अरजसः-शरीरवस्त्रादिषु मललक्षणरजोरहिताः, अलम्बेच्छाः-संपन्नसर्वेन्द्रियार्थतया प्रकृतिपुरुषतया चाविद्यमानतथाविधाकाङ्क्षाः । एतदपि महदिकदेवापेक्षं प्रायेणेति ॥ ३३२ ॥ इदानीमुच्छ्वासाहारद्वारे युगपरेवाह

Loading...

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196