Book Title: Devendra Narkendra Prakaranam
Author(s): Munisundarsuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 168
________________ देवेन्द्रप्रकरणम् .. १४५) अचंतसुरहिगंधा, फासे नवणीयमउयसुहफासा । ..... निच्चुज्जोया रम्मा, सयंपमा ते विरायंति ॥ ३२० ॥ ___ अत्यन्तं-अतिशयेन सुरभिः-मृगमदघनसारागुरुप्रभृतिसुगन्धिद्रव्यकलापोपमानो गन्धो येषां तेऽत्यन्तसुरभिगन्धाः, 'स्पर्शे ' स्पर्शविषये नवनीतवन्मृदुकः शुभः स्पर्शो येषां ते नवनीतमृदुकशुभस्पर्शाः, तथा "नित्योद्दयोताः' शशाङ्कार्कादिबिम्बवन्निरन्तरस्फुरत्तारतेजःपुञ्जप्रकाशितदिक्चक्राः, अत एव 'रम्याः' रमणीयाः 'स्वयम्प्रभाः' खयं-आत्मनैवान्यनिरपेक्षा प्रभा-प्रभावो येषां ते तथा 'ते' विमानाः 'विराजन्ते' चकासतीति ॥ ३२० ॥ इत्थं विमानस्वरूपगतां द्वारगाथामुपन्यस्य व्याख्याय चेदानीं तद्गतदेववक्तव्यताप्रतिबद्धां द्वारगाथामाह उववायपरीमाणं, अवहारुच्चत्तमेव संघयणं ।। ... संठाणगंधफासे, ऊसासो चेव आहारो ॥ ३२१ ॥ - उपपातेन सह परीमाणं, कुतो देवा उत्पद्यन्ते ? किश्च तेषां परिमाणम् ? इत्येवंलक्षणम् । अपहारश्चोच्चत्वं चापहारोच्चत्वम् , ' एवः' समुच्चये । तत्रापहारो नाम वर्तमानसमयदेवलोकदेवानां समयापहारेणापहारकालः । ' उच्चत्वं ' शरीरप्रमाणम् । 'संहननं ' अस्थिसञ्चयविशेषः । संस्थानं च गन्धश्च स्पर्शश्च संस्थानगन्धस्पर्शाः । उच्छासः 'चैव' इति भिन्न (गगत आहारश्चैव वाच्य इति ॥३२१॥ एनामेव द्वारगाथां व्याचिख्यासुर्गाथाचतुर्दशकमाह. सोहम्मीसाणेसुं, उववाओं अकम्मकम्मभूमीणं । पंचिंदियतिरियनरेहि कम्मभोमेहिं सेसाणं ॥ ३२२ ॥

Loading...

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196