________________
देवेन्द्रप्रकरणम् .. १४५) अचंतसुरहिगंधा, फासे नवणीयमउयसुहफासा । .....
निच्चुज्जोया रम्मा, सयंपमा ते विरायंति ॥ ३२० ॥ ___ अत्यन्तं-अतिशयेन सुरभिः-मृगमदघनसारागुरुप्रभृतिसुगन्धिद्रव्यकलापोपमानो गन्धो येषां तेऽत्यन्तसुरभिगन्धाः, 'स्पर्शे ' स्पर्शविषये नवनीतवन्मृदुकः शुभः स्पर्शो येषां ते नवनीतमृदुकशुभस्पर्शाः, तथा "नित्योद्दयोताः' शशाङ्कार्कादिबिम्बवन्निरन्तरस्फुरत्तारतेजःपुञ्जप्रकाशितदिक्चक्राः, अत एव 'रम्याः' रमणीयाः 'स्वयम्प्रभाः' खयं-आत्मनैवान्यनिरपेक्षा प्रभा-प्रभावो येषां ते तथा 'ते' विमानाः 'विराजन्ते' चकासतीति ॥ ३२० ॥ इत्थं विमानस्वरूपगतां द्वारगाथामुपन्यस्य व्याख्याय चेदानीं तद्गतदेववक्तव्यताप्रतिबद्धां द्वारगाथामाह
उववायपरीमाणं, अवहारुच्चत्तमेव संघयणं ।। ... संठाणगंधफासे, ऊसासो चेव आहारो ॥ ३२१ ॥
- उपपातेन सह परीमाणं, कुतो देवा उत्पद्यन्ते ? किश्च तेषां परिमाणम् ? इत्येवंलक्षणम् । अपहारश्चोच्चत्वं चापहारोच्चत्वम् , ' एवः' समुच्चये । तत्रापहारो नाम वर्तमानसमयदेवलोकदेवानां समयापहारेणापहारकालः । ' उच्चत्वं ' शरीरप्रमाणम् । 'संहननं ' अस्थिसञ्चयविशेषः । संस्थानं च गन्धश्च स्पर्शश्च संस्थानगन्धस्पर्शाः । उच्छासः 'चैव' इति भिन्न (गगत आहारश्चैव वाच्य इति ॥३२१॥ एनामेव द्वारगाथां व्याचिख्यासुर्गाथाचतुर्दशकमाह. सोहम्मीसाणेसुं, उववाओं अकम्मकम्मभूमीणं । पंचिंदियतिरियनरेहि कम्मभोमेहिं सेसाणं ॥ ३२२ ॥