________________
भूमयोऽकम कर्म चोक्तलक्षणयज्ञानदर्शन चारित्रामा
(१४६) मुनिचन्द्रसूरिविरचितवृत्तिसमेत
सौधर्मेशानयोः कल्पयोः ' उपपातः ' उत्पत्तिः कुतः सकाशात् ? इत्याह-कर्म-कृप्यादि मोक्षसाधकं वा सम्यग्ज्ञानदर्शन चारित्राराधनरूपं तत्प्रतिषेधादकर्म, कर्म चोक्तलक्षणमेव, ततोऽकर्मणः कर्मणश्च योग्या भूमयोऽकर्मकर्मभूमयः । तत्र त्रिंशद्देवकुर्वादिका अभूनयः, पञ्चदश भरताद्याः कर्मभूमयः, तासां संबन्धिभ्यः पञ्चेन्द्रिय तिर्यगनरेभ्यः संज्ञितिर्यग्भ्यो नरेभ्यश्चेत्यर्थः। शेषकल्पनिर्झरणार्थमाह-कर्नप्रधाना भूमिःजन्मक्षेत्रं येषां ते कर्मभूमास्तेभ्यः पञ्चेन्द्रियतिर्यग्नरेभ्य एव सकाशादुत्पत्तिः ‘शेषाणां' इति विभक्तिव्यत्ययातू शेषेषु-सनत्कुमारादिदेवलोकेप्विति ।। ३२२ ॥ तथापि विशेषमाह- . . .
पंचेंदियतिरियाणं, उववालो होइ जा सहस्सारो। . सेसाण सुरगणाणं, होइ मणुस्सेहि उववाओ ॥ ३२३ ॥
'पञ्चेन्द्रियतिरश्यां' संज्ञिरूपाणामुपपातो यावद्भवेत् सहस्रारः, सहस्रारं यावदित्यर्थः । ‘शेषाणां ' आनतप्राणतादिसंबन्धिनां सुरगणानां भवति मनुष्येभ्य उपपात इति ।। ३.२३ ॥ .
संजयमीसगअस्संजबाण उववाओ अच्चुत्रो जाय । गेवेज मीसरहिया, तेण परं संजया चेव ॥ ३२४ ॥
संयतमिश्रकाऽसंयतानामुपपातः ' अच्युतो यावत् ' अच्युतं यावदित्यर्थः । तत्र संयताः-सर्वथा षड्नीवनिकायवधव्यावृत्ताः ब्रह्मचारिणो निगृहीतेन्द्रियम्षायाः सम्यक्प्रत्युपेक्षणाद्यनुष्ठानपरायणाः प्रमत्ताद्याः प्राणिविशेषाः । मिश्रकाः-संयमानुष्ठानान्मिश्रभावमापन्ना देशविरता इति यावत् । असंयताः-देशसर्वसंयमशून्या मिथ्यादृष्ट्यादयोऽविरतसम्यग्दृष्टिपर्यन्ताः, परं सम्यग्मिथ्यादृष्टिवर्ना इह गृह्यन्ते,