________________
देवेन्द्रप्रकरणम्। (१५७) " न सम्ममिच्छो कुणइ कालं" इति वचनात् तेषां क्वचिदप्युपपाताभावात् । 'गेवेज' ति ग्रैवेयकेषु 'मिश्ररहिताः' असंयताः संयताश्चेत्यर्थः। तत्रासंयता ये खलु ऋद्धिपूनायशस्कामा नैर्ग्रन्थं लिङ्गमापन्ना आरब्धपरिपूर्णयतियोग्यक्रियाकाण्डा अन्तरङ्गभावशून्यास्त एवं गृह्यन्ते । यथोक्तम्-" जे दंसणवावन्ना, लिंगम्गहणं करेंति सामन्ने । तेसिं पि य उववाओ, उक्कोसा जाव गेवेजा ॥ १ ॥" 'तेन परं' इति ततः-ग्रैवेयकेम्योऽये संयताश्चैवोत्पद्यन्ते, नासंयता नापि संयतासंयता इति ॥ ३२४ ॥ अथ परिमाणद्वारम्उकोसेग्ण असंखा, उववजंती जहन्नपणेगो। जा सहसारो कप्पो, तेण परं जाण संखेजा ॥ ३२५ ॥ 'उत्कर्षेण ' प्रकर्षवृत्त्या असंख्याः ' उपपद्यन्ते ' जायन्ते देवतया तिर्यम्मनुष्या एकसमयेन । जघन्येन 'एकः' तिर्यगादिः, कियदूरमयं व्यवहारः ? इत्याह-यावत्सहस्रारः कल्पः । तेन परं' सहस्रारास्कल्पादूर्ध्व जानीहि यथा संख्येया एवोत्पद्यन्ते, यतः संज्ञिमनुष्या: णामेव तत्रोत्पत्तिस्तेषां च प्रकृत्यैव संख्यातरूपत्वादिति ॥ ३२५ ॥ संप्रत्यपहारद्वारम्
ओसप्पिणिउस्सप्पिणि, संखाईयाहि जा सहस्सारो। - तेण परं अवहारो, पलियअसंखेनभागेणं ॥ ३२६ ॥ · अवसर्पिण्युत्सर्पिणीभिः विभक्तिलोपश्च प्राकृतत्वात् , संख्यातीताभिरपहार इत्युत्तरेण योगः, यावत्सहस्रारः, प्रतिसमयापहारेण तत्रोत्पनोत्पद्यमानदेवानामपद्रियमाणानामसंख्यातावसर्पिण्युत्सर्पिणीसमयैः सपिहारो भवतीति भावः । तेन परं' आनतादिकल्पेष्वपहारः