________________
( १४८ )
मुनिचन्द्रसूरिविरचितवृत्तिसमेतं
' पल्या संख्येयभागेन ' अद्धापल्योपमस्यासंख्येयतमांशेन । अयमंत्र - भावः - असंख्यातासूत्सर्पिण्यवसर्पिणीपु यावन्तः समयास्तावन्तः सौधर्मादिषु सहस्रारान्तेषु कल्पेषु प्रत्येकं समुदायेन च प्रागुत्पन्नोत्पद्यमानका देवा लभ्यन्ते । पल्योपमासंख्येयभागसमयप्रमाणाश्चानतादिषु' 1 सर्वार्थसिद्धबहिर्वर्तिविमानपर्यन्तेष्विति ॥ ३२६ ॥ अधुनोचत्वद्वारम्सोहम्मे ईसाणे, उच्चत्तं होइ सत्त रयणीयो । एकेकहाणि सेसे, दुदुगे य दुगे चटके य || ३२७ ॥ गेवेजेसुं दोराणी, एका रयणी अत्तरेसुं तु । भवधारणिज्ज एसा, उक्कोसा होंति णायच्या ॥ ३२८ ॥ सौधर्मे ईशाने ' उच्चत्वं' शरीरोच्छ्रयो भवतीति देवानाम्, कियान् ? इत्याह-सप्त ‘ रत्नयः ' हस्ताः, उत्सेधानुलापेक्षमेतत्, " उस्सेह पमाणओ मिणसु देहं " इति वचनात् । शेषदेवस्थानदेहोच्छ्यसिद्ध्यर्थमाह-' एकैकहानिः ' एकैकस्य हस्तस्य परिहाणिः कर्त्तव्या, क्व ? इत्याह-' सेसे' त्ति वचनव्यत्ययात् ' शेषेषु' सनत्कुमारादिषु । कथम् ? इत्याह- द्विके द्विके चकारस्य भिन्नक्रमत्वाद्विके च चतुष्के च । अयमत्र भावः --- : - सौधर्मेशानयोः सप्त हस्ताः, सनत्कुमारमाहेन्द्रयोः षट्, ब्रह्मलोकलान्तकयोः पञ्च, शुक्रसहस्रारयोश्चत्वारः, आनतप्राणतारणाच्युतेषु त्रय इति ॥ ३२७ ॥ ग्रैवेयकेषु सर्वेष्वपि
1
। एको रत्निरनुत्तरेषु, लिङ्गव्यत्ययः प्राकृतत्वात् । 'तुः' पुनरर्थः । ' भवधारणीया ' भवं यावद्धार्यते या सा भवधारणीया - स्वाभाविकी
"
एषा' सप्तहस्तादिका देहावगाहना उत्कृष्टा भवति ज्ञातव्येति ॥ ३२८ ॥ अथैतेषामेव जघन्यामवगाहनामाह-