________________
देवेन्द्रप्रकरणम्। , (१४९) अंगुलभागमसंखो, सुराण ओगाहणा जहण्णा उ । सव्वेसु सयसहस्सं, उत्तरवेउवि उक्कोसा ॥ ३२६ ॥ . अङ्गुलभागः ' असंख्यः' असंख्येयः 'सुराणां' देवानामवगाहना ' जघन्या ' सर्वतुच्छा, 'तुः ' पूर्ववत् , इयं चोत्पत्तिकाले भवति । कृतोत्तरवैक्रियाणां पुनरियमेवान्यथेत्याह- सर्वेषु ' देवस्थानेषु 'शतसहस्रं ' योजनलक्षं यावदुत्तरवैक्रियोत्कृष्टावगाहना भवति । उत्तरवैक्रियजघन्या त्वङ्गुलसंख्येयभागप्रमाणैव, पर्याप्तत्वेन तस्य तथाविधजीवप्रदेशसंकोचाभावादिति ॥ ३२९ ॥ [ अथ संहनन ] द्वारम्- संघयणेण सुरगणा, अस्संघयणी महाबला सूरा ।
सोमा महाणुभावा, अणिदियगुणा विरायंति ॥ ३३० ॥ ___ 'संहननेन.'' तथाविधास्थिसंचयरूपेण चिन्त्यमानाः ‘सुरगणाः ' देवसङ्घाताः, किम् ? इत्याह--' असंहनिनः' वर्षभनाराचादिसंहननविकलाः, वैक्रियशरीरत्वेन तस्य तथाविधास्थिसंचयस्य तेष्वभावात् । यत उक्तम्-"नेवऽट्ठी नेव सिरा, देवाण सरीरसंघाए।" 'महाबलाः' . प्रकृत्यैव संहननसाध्यबलातिरेकवन्तः ' शूराः ' संग्रामपटुसुभटवद्भयवर्जिताः । सौम्याः स्तिमितप्रकृतयः ' महानुभावाः ' अचिन्त्यशक्तितयाऽशिवायुपद्रवव्रातव्यावृत्तिकराः 'अनिन्दितगुणाः' अगर्हणीयलावण्यादिगुणग्रामवन्तः सन्तः 'विराजन्ते ' वभवति (प्रभवन्ति)। महर्डिकदेवापेक्षमेतत् , अन्येषु महाबलत्वादिविशेषणानां सम्यगनुपपद्यमानत्वादिति ॥ ३३० ॥ अथ संस्थानद्वारम्-.. सव्वेसि संठाणं, समचउरंसं महग्यमाहपं । उत्तरविउब्वियं पुण, नाणाविहरूवसंठाणं ॥ ३३१ ॥