Book Title: Devendra Narkendra Prakaranam
Author(s): Munisundarsuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
देवेन्द्रप्रकरणम्।
(१२७) स्योपमस्थितयस्ताः सौधर्मदेवानां प्रवीचारयोग्या वर्तन्ते । एवमीशानेऽपि वाः साधिकपल्योपमादारभ्य यावन्नवपल्योपमस्थितयस्तास्तद्देवलोकदेवानामेव प्रवीचारविषयतामायान्ति । अन्याः पुनः पल्योपमसा- . धिकपल्योपमस्थितेरारभ्य यावद्दशपञ्चदशपल्योपमप्रमाणस्थितयस्तावद्यथाक्रमं सनत्कुमारमाहेन्द्रदेवानाम् । ततोऽपि याः समयाद्यधिकदशपञ्चदशपल्योपमस्थितयो यावद्विंशतिः पञ्चविंशति ]श्च पल्योपमानि तावत्ता ब्रह्मलोकलान्तकदेवानाम् । ततो याः समयाद्यधिकस्थितयो यावत्रिंशत्पञ्चत्रिंशच्च पंल्योपमानि तावत्ताः शुक्रसहस्रारदेवानाम् । अतोऽपि याः समयाद्यधिकस्थितयो यावच्चत्वारिंशत्पञ्चचत्वारिंशच्च तावत्ता आनतप्राणतदेवानाम् । अतोऽपि याः समयाद्यधिकस्थितयो यावत्पश्चाशत् पञ्चपञ्चाशच तावत्ता आरणाच्युतदेवानां प्रवीचारयोग्या भवन्तीति । प्रवीचारक्रमश्च-" दो कायप्पवियारा कप्पा " ( गा० ३४७ ) इत्यादिना वक्ष्यत इति ॥ शेषविमानवक्तव्यतामाह
सोहम्मे ईसाणे, जे सेसा मीसगा उ ते सव्वे । . . तेण परं जे सेसा, सणंकुमारादि णिम्मीसा ॥ २६० ॥ - सौधर्मे ईशाने [च] देवलोके ये 'शेषाः ' षड्म्यश्चतुर्दाश्च देवीविमानशतसहस्रेभ्यो व्यतिरिक्ताः ‘मिश्रकास्तु' देवदेवीलोकसंकुला एवं ते सर्वे 'विमानाः । तेन ' इति ततः परं ये शेषाः ‘सणंकुमाराह' त्ति सनत्कुमारादिषु देवलोकेषु 'निर्मिश्राः' देवानामेव तत्रोत्पादः, नवपल्योपमस्थितीनामीशानदेवभोग्यत्वं देवीनामुक्तं तत् परिगृहीता आश्रित्य संभाव्यते। अन्यथाऽपरिगृहीतानां पल्योपमायुष्काणां साधिकपल्योपमायुष्काणामेव क्रमेण सौधर्मेशानदेवभोग्यत्वेनोफत्वादसङ्गतिः स्यात् ॥

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196