Book Title: Devendra Narkendra Prakaranam
Author(s): Munisundarsuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 151
________________ (१२८) मुनिचन्द्रसूरिविरचितवृत्तिसमेत केवलेन्द्राः केवलदेवसंभवश्च, सौधर्मेशानयोरुपरिदेवलोकेषु ग्रन्थान्तरे देव्युत्पादस्य प्रतिषेधादिति ॥२९०॥ कल्पविमानप्रमाणप्रतिपादनायाह सोहम्मे ईसाणे, कप्पविमाणाण होति विकंभो। . पारस य सयसहस्सा, पण्णासं चेव य सहस्सा ॥ २६१ ॥ सौधर्मे ईशाने आधारभूते 'कल्पविमानानां ' केवलेन्द्राभाव्यानां पश्चानां संबन्धी भवति विष्कम्भः, किंरूपः ? इत्याह-द्वादश च. शतसहस्राणि पञ्चाशञ्चैव च सहस्राणि । अङ्कतोऽपि-१२५०००० ॥२९१॥ अमुमेवार्थ विषयविभागेन व्यवस्थापयितुं गाथाद्वयमाह सोहम्मवडिसे या, ईसाणवडिंसम्मि जे भणिया। सकावासा पंच य, ईसाणे चेव आवासा ॥ २६२॥ सौधर्मावतंसकविमानसंबन्धात्सौधर्मावतंसकः-सौधर्मपर्यन्तप्रस्तटस्तत्र 'चः ' समुच्चये, एवमीशानावतंसके प्रस्तटे ये भणिताः प्राक् 'शक्रावासाः , केवलशकाभाव्यत्वेन शक्रनिलयभूताः ‘पञ्च च' पञ्चैव 'ईशाने चैव' इति विभक्तिव्यत्ययादीशानस्य चैवेन्द्रस्यावासाः पञ्चेत्यनुवर्तत इति ॥ २९२ ॥ . . तेसेयं तु पमाणं, मज्झिल्लवडिंसयाण णणेसि । . सेसा संखमसंखा, जोयणकोडीओ माणेणं ॥ २९३ ॥ 'तेषां ' पञ्चानां शक्रावासानामीशानावासानां च मध्ये ' एतत्तु ' इदं पुनः 'प्रमाणं ' अनन्तरोक्तं ' मध्यमावतंसयोः ' सौधर्मावतंसकस्येशानावतंसकस्य चेत्यर्थः । व्यवच्छेदमाह-'न' नैव 'अन्येषां' चतुर्णाम् । तर्हि तेषां [किं] प्रमाणम् ? इत्याह-' शेषाः ' चत्वारः मौधर्मावतंसकेशानावतंसकयोः प्रत्येकं बहिर्वर्तिनः ‘संखमसंख ' त्ति

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196