Book Title: Devendra Narkendra Prakaranam
Author(s): Munisundarsuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 160
________________ देवेन्द्रप्रकरणम् । (१३७) इत्यादि करणरीतिर्गणितकुशलेनाभ्यूह्य स्वयमेवानुवर्त्तनीया, विस्तरभयाच्च न लिखितेति ॥ अथ सौधर्मेशानकल्पगमेव वक्तव्यान्तरमाहपागारदुवारेसुं, सभासु भवणेसु जं परीमाणं । जं होइ चमरचंचाऍ जं तु वइरोयासहाए || ३०७ ॥ 7. . , 6 प्राकारश्च द्वाराणि च प्राकारद्वाराणि तेषु प्राकारद्वारेषु ' सभासु सुधर्मासु ' भवनेषु' विमानमध्यप्रासादलक्षणेषु विषये किं प्रमाणमुच्छ्रयाद्यपेक्षया वर्तते ? इति शिप्येण पृष्टे सूरिराह-यत्परीमाणं भवति चमरचञ्चायां चमरनामासुरेन्द्रराजधान्यां यत्तु वैरोचनसभायां विशेषेण रोचते शोभत इति विरोचनः स एव वैरोचनः स चेह बलिनामा असुरेन्द्रस्तस्य सभा-निवासो निलय इत्येकोऽर्थः ततो बलिचtri राजधान्यामित्यर्थः ॥ ३०७ ॥ तत् किम् ? इत्याहतं दुगु नायव्वं, सोहम्मीसाणकप्पवासीणं । दो दो बारसहस्सा, एकेकाए य वाहाए ॥ २०८ ॥ 'तत्' प्राकारादिप्रमाणं चमरचञ्चावलिचञ्चयोः संबन्धि [ द्विगुणं ] ' ज्ञातव्यं ' वोद्धव्यं सौधर्भेशानकल्पवासिनां प्राकारद्वारादीनाम् । तथा द्वारसह एकैकस्यां तु ' वाहायां ' तथाविधप्राकारभित्तिभागलक्षणायाम् । यत्पुनरत्रैव प्रागभिहितं " सव्वे वट्टविमाणा एगदुवारा - भवंति ” ( गाथा २४८ ) इत्यादि तदावलिकाप्रविष्ट विमानान्येवाश्रित्योक्तमिति संभाव्यते, इदं पुनरावलिकाबाह्यविमानापेक्षयेति ॥ तत्र सर्वविमानेषु प्राकारस्योजत्वं त्रीणि योजनशतानि, विस्तारो मूले योजनातं, मध्ये पञ्चाशत्, सर्वोपरि पञ्चविंशतिः । किमुक्तं भवति ? - मूले विस्तीर्णः मध्ये संक्षिप्तः उपरि तु तनुतरो गोपुच्छसंस्थानसं "

Loading...

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196