Book Title: Devendra Narkendra Prakaranam
Author(s): Munisundarsuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 162
________________ देवेन्द्रप्रकरणम् । ( १३९, परं मूलप्रासादापेक्षया अर्द्धार्द्धप्रमाणा आयामविष्कम्भोञ्चत्वे द्रष्टव्याः ॥ ३०९ ॥ अथ कल्पेप्वेव वक्तव्यान्तरसूचिकां द्वारगाथामाहकप्पाण पट्ठाणं, संठाणविमाणवाहउच्चतं । संखेज्जवित्थडा विय, वराणे माणे य गंधे य ॥ ३१० ॥ " 'कल्पानां ' सौधर्मादिलक्षणानां प्रतिष्ठन्ति - प्रतिष्ठां लभन्ते विमा - नान्यस्मिन्निति ' प्रतिष्ठानं ' घनोदध्यादि तत्स्वरूपतो वाच्यम् । तथा ' संस्थानविमानाबाधोच्चत्वं ' तत्र संस्थानं वृत्तादि, विमानानि विष्कम्भतः परिक्षेपतश्च, बाधा -क्षयस्तद्विपर्ययादबाधा - शाश्वतभाव इत्यर्थः, उच्चत्वं विमानानां तत्पीठानां चोच्चभावो वक्तव्यः । तथा संख्यातविस्तरा अपिचेंतिशब्दादसंख्यातविस्तराश्च । तथा 'वर्णः ' शुक्लादिः 'मानं ' प्रतिष्ठान बाहल्यविमानोच्चत्वसंयोजने 'च: ' समुच्चये 'गन्धः " घ्राणेन्द्रियग्राह्यो गुणः, चशब्दात्स्पर्शादिश्च वक्तव्य इति ॥ ३१० ॥ सांप्रतमेतान्येव द्वाराणि व्याचिख्यासुर्गाथादशकमाह— उदहिपाणा, दोसादिल्लेसु तिसु य घणवाओ । तमू य तदुभयम्मी, आगासपइडिया सेसा ॥ ३११ ॥ धनः- निबिडः स चासावुदधिश्व - उदकराशिर्घनोदधिः प्रतिष्ठानंउक्तलक्षणं येषां ते घनोदधिप्रतिष्ठाना विमाना द्वयोरादिमयोः कल्पयोः । तथा ' त्रिषु च ' सनत्कुमारमाहेन्द्रब्रह्मलोकलक्षणेषु पुनः ' धनवातः घनवातप्रतिष्ठिता विमाना इत्यर्थः । ' तीसू य' त्ति त्रिषु लान्तकशुक्रसहस्रारेषु पुनः 'तदुभये' घनोदधिधनवातलक्षणे विमाना वर्तन्ते । 'आकाशप्रतिष्ठिताः' शुद्धाकाशलब्धप्रतिष्ठानाः 'शेषाः ' आरणादिदेवलोकविमानाः सन्तीति । उक्तञ्च - " घणउदहिपइट्ठाणा, सुरभवणा 9.

Loading...

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196