Book Title: Devendra Narkendra Prakaranam
Author(s): Munisundarsuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 145
________________ (१२२) मुनिचन्द्रसूरिविरचितवृत्तिसमेत माणेसुं चिय ' त्ति इन्द्रसंबन्धिविमानेष्वेव । कुतोऽयं तेषामेकत्रैवावस्थानसंभवः ? इत्याह-'ईर्ष्यादिदोषरहितत्वातू' तथाविधासूयामत्सराहकारादिदोषव्रजविकलत्वादिति ॥२७९ ॥ अथाग्रमहिषीणां प्रमाणं क्रियान्तरं चाभिधित्सुराह-- सकस देवररणो, देवीओ अट्ट होंति नायव्वा । एकेका वि य एत्ती, विउव्वए सोलस सहस्से ॥ २८ ॥ . शक्रस्य ‘देवराजस्य' त्रिदशनायकस्य 'देव्यः' अग्रमहिष्योऽष्टौ भवन्ति ज्ञातव्याः । एकैकापि च ' इतः । अष्टाग्रमहिषीदेवीमध्यात् , किम् ? इत्याह-विकुरुते षोडश सहस्राणि । एतदुक्तं भवति-यदा शकः प्रवीचाराभिप्रायपरायणो भवति तदा सपदि वैक्रियसमुदातेन परिणम्य स्वशिखरोल्लिखितगगनान्तरालमतिवहलरश्मिंजालपाटलीलतसकलदिक्चक्रवालमतिशयोत्तुङ्गपवनप्रेर्यमाणरमणीयध्वजपताकामालमेक लक्षयोजनप्रमाणं संभोगभारसहमुत्रविमान विकुरुते, तदनु तन्मध्य-वर्तिन्यां मणिपीठिकायां स एव दिव्यरूपं शयनीयमेकं निर्मापयति, ततोऽसावष्टाभिर्देवीभिः प्रत्येकं कृतषोडशसहस्रप्रमाणोत्तरवैक्रियशरीराभिभ्यां च गन्धर्वनाट्यानीकाभ्यां सहितः कृतानेकोत्तरवैक्रियशरीरस्तत्र विमाने समारोहति । ततो देवीभिः कृतोत्तरवैक्रियाभिस्सह महता संरम्भेण प्रवीचारमारभ्य कियतोऽपि कालादूर्ध्व विगतवेदोदयविप्लवो भवतीति ॥ २८० ॥ सामस्त्येन सर्वदेवीसंबन्ध्युत्तरवैकियाग्रमाह' एगं च सयसहस्स, अट्ठावीसं भवे सहस्साई। ‘सकस्स देवरपणो, देवीणं होति ओसेहो ॥ २८१॥ - 'एगं च ' एकमेव — शतसहस्रं ' लक्षमष्टाविंशतिर्भवेयुः सहस्राणि

Loading...

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196