Book Title: Charitra Sara
Author(s): Chamundrai, Indralal Shastri, Udaylal Kasliwal
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 12
________________ चारित्रसारे अदत्तादानविरतेः पंचातीचारा भवति । स्तेनप्रयोगः, तदाहृतादानं, विरुद्धराज्यातिक्रमः, हीनाधिकमानोन्मानं, प्रतिरूपकव्यवहारश्चेति । मोषकस्य त्रिधा प्रयोजन; मुष्णन्तं स्वयमेव प्रयुक्ते, अन्येन वा प्रयोजयति, प्रयुक्तमनुमन्यते वा यः सः स्तेनप्रयोगः । अप्रयु. क्तेनाननुमतेन च चौरेणानीतस्य ग्रहणं तदाहृतादानम् । विरुद्धं राज्यं विरुद्धराज्यं, उचितन्यायादन्येन प्रकारेणादानं ग्रहणमतिक्रमः, तस्मिन्विरुद्धराज्ये योऽसावतिक्रमः स विरुद्धराज्यातिक्रमः । प्रास्था दिमानं तुलाद्युन्मानमेतेन न्यूनेनान्यस्मै देयमधिकेनात्मना ग्राह्यमित्ये वमादि कूटप्रयोगो हीनाधिकमानान्मानम् । कृत्रिमैर्हिरण्यादिभिर्वचना पूर्वको व्यवहारः प्रतिरूपकव्यवहार इति । __उपात्ताया अनुपात्तायाश्च परांगनायाः संगाद्विरतरतिर्विरताविरत इति चतुर्थमणुव्रतम् । ___ स्वदारसंतोषव्रतस्यातीचाराः पंच भवंति । परविवाहकरणं, इस्व. रिका--अपरिगृहीतागमनं, इत्वरिकापरिगृहीतागमनं, अनंगक्रीडा, कामतीत्राभिनिवेशश्चेति । तत्र सद्वेद्यस्य चारित्रमोहस्य चोदयाद्विवहनं विवाहः परस्य विवाहकरणं परविवाहकरणं । ज्ञानावरणक्षयोपशमादापादितकलागुणज्ञतया चारित्रमोहस्त्रीवेदोदयप्रकर्षादंगोपांगनामोदयावष्टंभाच्च परपुरुषानेतीति इत्वरिका या गणिकात्वेन वा पुंश्चलित्वेन परपुरुषगमनशीला अस्वामिका सा अपरिगृहीता, तस्यां गमनमित्वरिका-अपरिगृहीतागमनम् । या पुनरेकपुरुषभर्तृका सा परिगृहीता, तस्यां गमनमित्वरिकापरिगृहीतागमनम् । अंगं प्रजननं Jain Education International For Private & Personal Use Only ___www.jainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110