Book Title: Charitra Sara
Author(s): Chamundrai, Indralal Shastri, Udaylal Kasliwal
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 70
________________ चारित्रसारे स्तेनयतो मुनीन् प्रहरतो वाऽन्यदप्येवमादिविरुद्धाचरितमाचरतो नवदशपूर्वधरस्यादित्रिकसंहननस्य जितपरीषहस्य दृढधर्मिणो धीरस्य भवभीतस्य निजगुणानुपस्थापनं प्रायश्चित्तं भवति । तेन ऋष्याश्रमाद्वात्रिंशदंडान्तरं विहितविहारेण बालमुनीनपि वंदमानेन प्रति. वन्दनाविरहितेन गुरुणा सहाऽऽलोचयता शेषजनेषु कृतमौनव्रतेन विधृतपराङ्मुखपिच्छेन जघन्यतः पंचपंचोपवासा उत्कृष्टतः षण्मासोपवासाः कर्त्तव्याः, उभयमप्याद्वादशवर्षादिति । दर्पादनन्तरोक्तान्दोषानाचरतः परगणोपस्थापनं प्रायश्चित्तं भवतीति । स सापराधः स्वगणाचार्येण परगणाचार्य प्रति प्रहेतव्यः, सोऽप्याचार्यस्तस्यालोचनमाकर्ण्य प्रायश्चित्तमदत्त्वाऽऽचार्यान्तरं प्रस्थापयति, सप्तमं यावत् पश्चिमश्च प्रथमाऽऽलोचनाऽऽचार्य प्रति प्रस्थापयति, स एव पूर्वः पूर्वोक्तप्रायश्चित्तैनैनमाचारयति । __ परिहारस्य प्रथमभेदो द्विविधो गतः । पारंचिकमुच्यते, तीर्थकरगणधरगणिप्रवचनसंघाद्यासादनकारकस्य नरेन्द्रविरुद्धाचरितस्य राजानमभिमतामात्यादीनां दत्तदीक्षस्य नृपकुलवनितासेवितस्यैवमाद्यन्यैर्दोषैश्च धर्मदूषकस्य पारंचिकं प्रायश्चित्तं भवति । चातुर्वर्ण्यश्रमणाः संघ संभूय तमाहूय — एष महापातकी समयबाह्यो न वंद्य ' इति घोषयित्वा दत्त्वाऽनुपस्थानं प्रायश्चित्तं देशान्निर्घाटयन्ति । मिथ्यात्वं गत्वा स्थितस्य पुनरपि गृहीतमहावृतस्याऽऽप्ताssगमपदार्थानां श्रद्धानमेव प्रायश्चित्तं, तदेतद्दशविधं, देशकालशक्तिसंयमाद्यविरोधेनाल्पानल्पापराधानुरूपं दोषप्रशमनं चिकित्सितवद्विधेयं । जीवस्याऽसंख्येयलोकमात्रपरिमाणाः परिणामविकल्पा अपराधाश्च Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110