Book Title: Charitra Sara
Author(s): Chamundrai, Indralal Shastri, Udaylal Kasliwal
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 73
________________ अनगारधर्मे-तपोवर्णनम् । ६७ ग्रहणं प्रवचनस्य लोके गौरवोत्पादनहेतुत्वादसंयतसम्यग्दृष्टि संस्कारोपेतरूपत्वान्मनोज्ञः । आचार्यादीनां व्याधिपरीषहमिथ्यात्वाद्यपनिपाते सत्यप्रत्युपकाराशया प्रासुकौषधभुक्तिपानाऽऽश्रयपीठफलकसंस्तरादिभिर्धर्मोपकरणैस्तत्प्रतीकारः सम्यक्त्वप्रत्यवस्थापनमित्येवमादि वैयावृत्त्यं । बौह्यस्याषधभुक्तिपानादेरसंभवे स्वकायेन श्लष्यसिंघाणकान्तर्मलाद्यपकर्षणादि तदानुकूल्यानुष्ठानं च वैयावृत्त्यमिति कथ्यते, तत्पुनः किमर्थ समाध्याध्यानं विचिकित्साऽभावः प्रवचनवात्सत्यं सनाथता चेत्येवमाद्यथर्म । ___ स्वाध्यायो भण्यते । स्वस्मै हितोऽध्यायः स्वाध्यायः, स च वाचनापृच्छनाऽनुप्रेक्षाऽऽम्नायधर्मोपदेशभेदेन पंचविधः । तत्र निरपेक्षात्मना मुमुक्षुणा विदितवेदितव्येन निरवद्यस्य ग्रंथस्यार्थस्य तदुभयस्य वा पात्रं प्रति प्रतिपादनं वाचनेत्युच्यते । आत्मोन्नतिप्रकटनार्थ पराभिसंधनार्थमुपहाससंघर्षप्रहसनादिवर्जितः संशयच्छेदाय निश्चितबलाधानाय वा ग्रन्थस्यार्थस्य तदुभयस्य परं प्रति पर्यनुयोगः पृछना । अधिगतपदार्थप्रक्रियस्य तप्तायःपिंडवदर्पितचेतसो मनसाऽभ्यासोऽनुप्रेक्षा । वतिनो विदितसमाचारस्यैहलौकिकफलनिरपेक्षस्य द्रुतविलम्बितपदाक्षरच्युतादिघोषदोषविशुद्धं परिवर्तनमाम्नायः । दृष्टप्रयोजनपरित्यागादुन्मार्गनिवर्त्तनाथै सन्देहव्यावर्तनार्थमपूर्वपदार्थप्रकाशनार्थ धर्मकथाद्यनुष्ठानं धर्मोपदेशः । किमर्थोऽयं स्वाध्यायः, प्रज्ञातिशयः प्रशस्ताध्यवसायः, प्रवचनस्थितिः, संशयोच्छेदः, परवादिशंकाऽभावः, प्रभावना, परमसंवेगः, तपोवृद्धिः, अतीचारविशुद्धिः, कषायेन्द्रियजयः, परमोपायः, इत्येवमार्थ स्वाध्यायोऽनुष्ठेयः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110