Book Title: Charitra Sara
Author(s): Chamundrai, Indralal Shastri, Udaylal Kasliwal
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 80
________________ ७४ चारित्रसारे मुक्ताः क्रिया यथायोग्यं जघन्यमध्यमोत्तमश्रावकैः संयतैश्च करणीयाः । किमर्थो व्युत्सर्गो निःसंगत्वं निर्भयत्वं जीविताशाव्युदासो दोषच्छेदो मोक्षमार्गभावनापरत्वमित्येवमाद्यर्थम् । अथ ध्यानप्रस्तावः । एकाग्रचिंतानिरोधो ध्यानं, एकस्मिन् क्रियासाधनेऽग्रं मुखं यस्याश्चिन्ताया इत्येकाग्रचिन्ता तस्या निरोधोऽन्यत्राऽसंचारस्तदेकाग्रचिन्तानिरोधो ध्यानं । तस्य योगश्चतुर्विधः; ध्यानं, ध्येयं, ध्याता, फलमिति । तत्र ध्यानं चिन्ताप्रबन्धलक्षणं । ध्येयमप्रशस्तप्रशस्तपरिणामकारणं । ध्याता कषायकलुषितो गुप्तेन्द्रियश्च । फलं संसारभ्रमणं स्वर्गापवर्गसुखं च । तदेतच्चतुरंगध्यानमप्रशस्तप्रशस्तभेदेन द्विविधं, श्रेयोऽधिकारेऽप्रशस्तोपन्यासः परिज्ञातस्य प्रहेयत्वोपपत्तेः । अप्रशस्तं द्विविधमाः रौद्रं चेति । तत्राऽऽर्त बाह्याऽऽध्यात्मिकभेदाद्विविकल्पं । तत्र परानुमेयं बाह्यं शोचनक्रन्दनविलपनपरिदेवनविषयसंगपरिभवविस्मयादिलक्षणं । स्वसंवेद्यमाध्यात्मिकार्तध्यान, अमनोज्ञविप्रयोगस्यानुत्पत्तिसंकल्पाध्यवसानं, उत्पन्नस्य च विनाशसंकल्पाध्यवसानमिति चतुःप्रकारं । तद्यथाअमनोज्ञं दुःखसाधनं, तच्च बाह्यमाध्यात्मिकमिति द्विविधं । तत्र बाह्यं चेतनकृतमचेतनकृतमिति द्विप्रकारं । तत्र चेतनकृतं देवमनुष्यतिर्यसंपादितमसातं; अचेतनकृतं च विषकंटकाग्निशस्त्रक्षारशीतोष्णादिजनितदुःखं । आध्यात्मिककारणं शारीरं मानसमिति द्विविधं । तत्र शारीरं वातपित्तश्लेष्मवैषम्यसमुद्भवशिरोऽक्षिदन्तकुक्षिशूलादिजनितं । मानसं चाऽरतिभयशोकभयजुगुप्साविषाददौर्मनस्यादिजनितमित्यादिदुःखसाधनममनोज्ञं, तेन संप्रयोगः स कथं नाम Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110