Book Title: Charitra Sara
Author(s): Chamundrai, Indralal Shastri, Udaylal Kasliwal
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 106
________________ १०० चारित्रसारे परिणामितां भजते येषां वा वचनानि क्षीरवत्क्षीणानां तर्पकाणि भवंति ते क्षीराssस्राविणः । येषां पाणिपुटे पतित आहारो नीरसोऽपि मधुररसवीर्यपरिणामितां भजते येषां वा वचांसि श्रोतॄणां दुःखार्दितानामपि मधुरगुणं पुष्णंति ते मध्वाऽऽस्राविणः । येषां पाणिपात्रगतमन्नं मलरुधिरादिभावपरिणामविरहिताभ्यवहरणास्तप्ततपसः । अणिमादिजलचारणाद्यष्टगुणालंकृता विस्फुरितकायप्रभा विविधाक्षीणर्द्धियुक्ताः सर्वौषधर्द्धिप्राप्ता अमृती कृतपाणिपात्रनिपतितसर्वाहाराः सर्वामरेंद्रेभ्योऽनंतबला आशीविषदृष्टिविषर्द्धिसमन्वितास्तप्ततपसश्च । सकलविद्याधारिणो मतिश्रुताऽवधिमन:पर्ययज्ञानाऽवगतत्रिभुवनगतव्यापारा महातपसः । वातपित्तश्लेष्मसंनिपातसमुद्भूतज्वरका साक्षिशूलकुष्ठप्रमेहादिविविध रोगसंतापितदेहा अप्यप्रच्युताऽनशनादितपसोऽनशने षण्मासोपवासाः, अवमोदर्य एककवलाहाराः, वृत्तिपरिसंख्याने चत्वरगोचरावग्रहाः । रसपरित्याग उष्णजलधौतोदनभोजिनः विविक्तशयनाssसने भीमश्मशानगिरिगुहादरीकंदर शून्यग्रामादिषु प्रदुष्टयक्षरक्षःपिशाचप्रनृत्यत्प्रेत वेतालरूपविकारेषु पुरुष शिवारुतानुपरतसिंहव्याघ्रादिव्यालमृगभीषणस्वनघोरचौरादिप्रचलितेष्वभिरुचितावासाः, कायक्लेशेऽतितीव्रशीतातपवर्षानिपातप्रदेशेष्वभ्रावकाशातापनवृक्षमूल योगप्राहिणः । एवमाभ्यंतर तपोविशेशेष्वप्युत्कृष्टतपोऽनुष्ठायिनो घोरतपसः । त एव गृहीततपोयोगवर्द्धनपराः । त्रिभुवनोपसंहरणमहीवलयप्रसनसकलसागरसलिलसंशोषणजलाग्निशिलाशैलादिवर्षण I चिरोषितस्खलितब्रह्मचर्याssवासाः शक्तयो घोरपराक्रमाः प्रक्रष्टचारित्र मोहक्षयोपशमात्प्रणष्टदःस्वप्ना घोरब्रह्मचारिणः, अथवा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110