Book Title: Charitra Sara
Author(s): Chamundrai, Indralal Shastri, Udaylal Kasliwal
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 30
________________ चारित्रसारे सहायत्वमुत्सवे संभ्रम इत्येवमादि सुकृतं बाल्ये सह पांशुक्रीडनमित्येवमादीनामनुस्मरणं मित्रानुरागः । एवं मया भुक्तं शयितं क्रीडितमित्येवमादि प्रीतिविशेषं प्रति स्मृतिसमन्वाहारः सुखानुबन्धः । विषयसुखोत्कर्षाभिलाष भोगाकांक्षतया नियतं चित्तं दीयते तस्मिन् तेनेति वा निदानमिति ॥ २४ इति श्रीमच्चामुंडरायप्रणीते भावनासंग्रहे चारित्रसारे सागारधर्मः समप्तोऽयम् । षोडशभावनाप्रकरणम् । उक्तैरेकादशोपासकैर्वक्ष्यमाणदशधर्माधारैश्च मनुष्यगतौ केवलज्ञानोपलक्षितजीवद्रव्यसहकारिकारण संबंधप्रारंभस्यानंतानुपमप्रभावस्याचिन्त्यविशेषविभूतिकारणस्य त्रैलोक्यविजयकरस्य तीर्थकरनामगोत्रकर्मणः कारणानि षोडश भावना भावयितव्या इति । तद्यथादर्शन विशुद्धता, विनयसंपन्नता, शीलवतेष्वनतीचारः, अभीक्ष्णज्ञानोपयोगः, संवेगः, शक्तितस्त्यागः, शक्तितस्तपः, साधुसमाधिः, वैयावृत्यकरणं, अर्हद्भक्तिः, आचार्यभक्तिः, बहुश्रुतभक्तिः, प्रवचनभक्तिः, आवश्यकापरिहाणिः, मार्गप्रभावना, प्रवचनवात्सल्यमिति । तत्र जिनोपदिष्टे नैर्ग्रथ्ये मोक्षवर्त्मनि रुचिः सम्यग्दर्शनं, विशुद्धिं विना दर्शनमात्रादेव तीर्थकर नामकर्मबंधो न भवति, त्रिमूढापोढाष्टमदादिरहितत्त्वात् । उपलब्धनिजस्वरूपस्य सम्यग्दर्शनस्य प्रथमद्वितीयोपशमकवेदकक्षायिकान्यतमविशिष्टस्य ज्ञानदर्शनतपश्चारित्रेषु त Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110