Book Title: Charitra Sara
Author(s): Chamundrai, Indralal Shastri, Udaylal Kasliwal
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 32
________________ २६ चारित्रसारे समुत्थिते दहने तत्प्रशमनमनुष्ठीयते बहूपकारित्वात्तथाऽनेकत्रतसमृद्धस्य मुनिगणस्य तपसः कुतश्चित्प्रत्यूहे समुपस्थिते तत्संधारणं साधुसमाधिरिति । गुणवतः साधुजनस्य संनिहिते दुःखे निरवयेन विधिना तदपहरणं बहुप्रकारं वैयावृत्त्यमिति । अर्हदाचार्येषु केवलश्रुतज्ञानदिव्यनयनेषु परहितकरप्रवृत्तिषु स्वपरसमयविस्तरनिश्चयज्ञेषु बहुश्रुतेषु प्रवचने च श्रुतदेवतासंनिधिगुणयोगदुरासदे मोक्षपदप्रासादारोहणसुरचितसोपानभूते भावविशुद्धियुक्तोऽनुरागो भक्तित्रिधा कल्प्यत इति । षडावश्यकक्रियाः, सामायिकं, चतुर्विशतिस्तवः, वंदना, प्रतिक्रमणं, प्रत्याख्यानं, कायोत्सर्गश्चेति । तत्र सामायिकं सर्वसावद्ययोगनिवृत्तिलक्षणं, चित्तस्यैकत्वेन ज्ञानेन प्रणिधानं वा, शत्रुमित्रमणिपाषाणसुवर्णमृत्तिकाजीवितमरणलाभालाभादिषु रागद्वेषाभावो वेति । चतुर्विशतिस्तवस्तीर्थकरपुण्यगुणानुकीर्तनमिति । वंदना त्रिशुद्धिः द्वयासनश्चतुःशिरोवनतिर्दादशावर्त्तना चेति, तत्प्रपंचस्तूत्तरत्र वक्ष्यते । प्रतिक्रमणमतीतदोषनिवर्त्तनमिति । प्रत्याख्यानमनागतदोषापोहनमिति । कायोत्सर्गः परिमितकालविषयशरीरममत्वनिवृत्तिरिति । एतासां षण्णां क्रियाणा यथाकालं प्रवर्त्तनमनौत्सुक्यमावश्यकापरिहाणिरिति । ज्ञानतपोजिनपूजाविधिना धर्मप्रकाशनं मार्गप्रभावनेति । प्रकृष्टं वचनं प्रवचनं, प्रकृष्टस्य वा वचनं प्रवचनं, सिद्धान्तो द्वादशाङ्गमित्यनान्तरं, तत्र भवा देशमहाव्रतिनः, असंयतसम्यग्दृष्टयश्च प्रवचनमित्युच्यते, तेष्वनुराग आकांक्षा ममेदं भावः प्रवचनवत्सलत्त्वं । तेनैकेनापि तीर्थकरनामकर्मबंधो भवति । कुतः पंचमहाव्रताद्या Jain Education International For Private & Personal Use Only ___www.jainelibrary.org

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110