Book Title: Charitra Sara
Author(s): Chamundrai, Indralal Shastri, Udaylal Kasliwal
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 59
________________ अनगारधर्मे-संयमवर्णनम् । ५३ स्वाध्यायध्यानाध्वश्रमपरिखेदितस्य खरविषमप्रचुरशर्कराकपालसंकटातिशीतोष्णेषु भूमिप्रदेशेषु मौहूर्तिकी निद्रामनुभवतो यथाssकृतैकपार्श्वदंडायतादिशायिनः संजातबाधाविशेषस्य संयमार्थमस्पन्दमानस्यानुतिष्ठतो व्यन्तरादिभिर्वा वित्रास्यमानस्य पलायनं प्रति निरुत्सुकस्य मरणभयनिर्विशंकस्य निपतितदारुवत् व्यपगतासुवच्च परिवर्त्तमानस्य द्वीपिशार्दूलमहोरगादिदुष्टसत्त्वपरिचरितोऽयं प्रदेशोऽचिरादतो निर्गमनं श्रेयः कदा नु रात्रिविरमतीति विषादमनाददानस्य सुखप्राप्तावप्यपरितुष्यतः पूर्वानुभूतनवनीतवन्मृदुशयनमननुस्मरतः सम्यगागमोदितशयनादप्रच्यवतः शय्यासहनमिति तत्प्रत्येतव्यम् । तीव्रमोहाऽऽविष्टमिथ्यादृष्टयनार्यम्लेच्छखलपापाचारमत्तोदृप्तशंकितप्रयुक्त 'मा' शब्दपरुषावज्ञानाक्रोशादीन्कर्णमूले गतान् हृदयशूलोद्भावकान् क्रोधज्वलनशिखाप्रवर्द्धनकरानभिप्रायान् शृण्वतोऽपि दृढमनसो दुर्भाषिणो भस्मसात्कर्तुमपि समर्थस्य परमार्थावहितचेतसः शब्दमात्रश्राविणस्तदर्थान्वीक्षणविनिवृत्तव्यापारस्य स्वकृताशुभकर्मोदयो ममैष यतोऽमीषां मां प्रति द्वेष इत्येवमादिभिरुपायैरनिष्टवचनसहनमाकोशपरीषहजय इति निर्णीयते ।। ग्रामोद्याननगराटवीपुरेषु नक्तं दिवा चैकाकिनो निरावरणमूर्तेः समन्तात्पर्यटद्भिश्चौरारक्षकम्लेच्छचारपुरुषबधिरपूर्वापकारिद्विषत्परलिंगिभिराहितकोधैस्ताडनाकर्षणबन्धनशस्त्राभिघातादिभिर्मार्यमाणस्यानुत्पन्नवैरस्यावश्यं प्रपातुकमेवेदं शरीरं कुशलद्वारेणानेनापनीयते न मम व्रतशीलभावनाझंशनमिति भावशुद्धस्य दह्यमानस्यापि सतः Jain Education International For Private & Personal Use Only ___www.jainelibrary.org

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110