Book Title: Charitra Sara
Author(s): Chamundrai, Indralal Shastri, Udaylal Kasliwal
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 47
________________ अनगारधर्मे - संयमवर्णनम् । मेतद्विपरीतं यच्च प्राणिपीडाकरं तदनृतं कृतात्कारितादनुमोदिताद्वाऽनृताद्विरतिः सत्यत्रतं तदभ्युदयनिःश्रेयसकारणं । सत्यवादिनं तदभ्युदयनिःश्रेयसकारणं । सत्यवादिनं सन्मानयति लोकः, सर्वेषु कार्येषु प्रमाणं भवति, अनृतवाद्यश्रद्धेयों भवति, इहैव जिह्वाच्छेदनादीन् प्रतिलभते, मिथ्याभ्याख्यानदुःखितेभ्यश्च बद्धवैरेभ्यो बहूनि व्यसनान्यवाप्नोति प्रेत्य चाऽशुभां गतिं । निंदितश्च भवतीत्यनृतवचनाद्युपरमः श्रेयान् । सत्यत्रतदृढीकरणार्थं पंच भावना भवंति । 1 क्रोधप्रत्याख्यानं, लोभप्रत्याख्यानं, भीरुत्वप्रत्याख्यानं, हास्यप्रत्याख्यानं, अनुवीची भाषणं चेति । अनुवीची भाषणमनुलोमभाषणमित्यर्थः, विचार्य भाषणमनुवीची भाषणम् । अदत्ताऽऽदानं स्तेयं । ग्रामारामशून्यागारवीथ्यादिषु निपतितमणिकनकवस्त्रादिवस्तुनो ग्रहणमदत्तादानं । कृतकारितदिभिस्तस्मा • द्विरतिरस्तेयत्रतम् । तद्गीर्वाणनिर्वाणप्रदं । अस्तेयत्रतिनो बहिश्वरप्राणेष्वर्थेष्वपि विश्वसिति लोकः । परद्रव्यहरणासक्तमतिः सर्वस्योद्वेजनीयो भवति, इहैव चाभिघातवधबन्धहस्तपादकर्णनासोत्तरौष्ठच्छेदन भेदनशला रोहणक्रकचैपाटनकारागार विनिवेशन सर्वस्वहरणादीन्प्रतिलभते प्रेत्य चाशुभां गतिं । कुत्सितश्च भवति, तत्संसर्गतः शिष्टोऽपि संशयमवाप्नोति । अदत्तादानत्रतस्थिरीकरणार्थं भावनाः पञ्च भवति । ce १ श्रदन्त इत्येतयोरुपसर्गवद्वृत्तिर्वतव्या " अत्र डुधाञ् धातुः, इत्यर्थः । २ पंचत्वं प्राप्य । ३ अत्रविशेषः । Jain Education International ४१ For Private & Personal Use Only अप्रत्य www.jainelibrary.org

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110