Book Title: Charitra Sara
Author(s): Chamundrai, Indralal Shastri, Udaylal Kasliwal
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 36
________________ चारित्रसारे वृत्त्याऽऽवृत इत्यादि । छद्मस्थज्ञानस्य द्रव्ययाथात्म्यादर्शनेऽपि संयतस्य संयतासंयतस्य वा स्वगुणपरिपालनार्थ प्रासुकमिदमप्रासुकमित्यादि यद्वचस्तद्भावसत्यं । प्रतिनियतषद्रव्यपर्यायाणामागमगम्यानां याथात्म्याऽऽविष्करणं यद्वचस्तत्समयसत्यं, समयोत्तरवृद्धया बालो युवा पल्योपम इत्यादि । सत्यवाचि प्रतिष्ठिताः सर्वगुणसम्पदः; अनृताभिभाषिणं बन्धवोऽप्यवमन्यन्ते, मित्राणि च विरक्तभावमुपयान्ति, विषाग्न्युदकादीन्यप्येनं न सहन्ते, जिह्वाच्छेदसर्वस्वहरणादिव्यसनभाग्भवतीति । __ संयमो द्विधा-उपेक्षाऽपहृतभेदेन । तत्र देशकालविधानज्ञस्य परानुपरोधेनोत्कृष्टकायस्य कायवाङ्मनःकर्मयोगानां कृतनिग्रहस्य त्रिगुप्तिगुप्तस्य रागद्वेषानभिष्वंगलक्षण उपेक्षासंयमः । अपहृतसंयमस्य समितयः कार्यास्ता उच्यन्ते, ईर्याभाषणाऽऽदाननिक्षेपोत्सर्गाः समितयः । तत्रेर्यासमिति मकर्मोदयाऽऽपादितविशेषकद्वित्रिचतुःपंचेंद्रियभेदेन चतुर्द्विििश्चतुर्विकल्पचतुर्दशजीवस्थानादिविधानवेदिनो मुनेर्धर्मार्थ प्रयतमानस्य सवितयुदिते चक्षुषोविषयग्रहणसामर्थ्यमुपजनयतः मनुष्यहस्त्यश्वशकटगोकुलादिचरणपातोपहतावश्याय प्रालयमार्गेऽनन्यमनसः शनैर्व्यस्त गदस्य संकुचितावय. वस्योत्सृष्टपार्श्वदृष्टेयुगमात्रपूर्वनिरीक्षणावहितलोचनस्य स्थित्वा दिशो विलोकयतः पृथिव्याद्यारंभाभावादीर्यासमितिरित्याख्यायते । हितमितासंदिग्धाभिधानं भाषासमितिः मोक्षपदप्रापणप्रधानफलं हितं, तद्विविधं, स्वहितं, परहितं चेति। मितमनर्थकबहुप्रलपनरहितं । स्फुटार्थ व्यक्ताक्षरं वाऽसंदिग्धत्वं । तस्याः प्रपंचो मिथ्याभिधानासूयाप्रियसभे. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110