Book Title: Charitra Sara
Author(s): Chamundrai, Indralal Shastri, Udaylal Kasliwal
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
शीलसप्तकवर्णनम् ।
१९
अस्य सामायिकस्यानंतरोक्तशीलसप्तकांतर्गतं सामायिकं व्रतं
प्रतिकस्य शीलं भवतीति ।
प्रोषधोपवासः मासे मासे चसुर्ष्वपि पर्वदिनेषु स्वकीयां शक्तिमनिगूह्य प्रोषधनियमं मन्यमानो भवतीति व्रतिकस्य यदुक्तं शीलं प्रोषधोपवासस्तदस्य व्रतमिति ।
सचित्तत्रतो दयामूर्तिर्मूलफलशाखाकरी रकंदपुष्प बीजादीनि न भक्षयत्यस्योपभोगपरिभोगपरिमाणशीलताति चारो व्रतं भवतीति । रात्रिभक्तत्रता रात्रौ स्त्रीणां भजनं रात्रिभक्तं तद्वतयति सेवत इति रात्रिव्रतातिचारा रात्रिभक्तत्रतः दिवाब्रह्मचारीत्यर्थः । ब्रह्मचारी शुक्रशोणितबीजं रसरुधिरमांसमेदोऽस्थिमज्जा शुक्र सप्तधातुमयमनेकस्रोतोविलं मूत्रपुरीषभाजनं कृमिकुलाकुलं विविधव्याधिविधुरमपायप्रायं कृमिभस्मविष्टापर्यवसान मंगमित्यनंगाद्विरतो भवति ।
आरंभविनिवृत्तोऽसिमसिकृषिवाणिज्यप्रमुखादारंभात्प्राणातिपातहेतोर्विरतो भवति । परिग्रहविनिवृत्तः क्रोधादिकषायाणामार्त्तरौद्रयोहिंसादिपंचपापानां भयस्य च जन्मभूमिः, दूरोत्सारितधर्म्य शुक्लः परिग्रह इति मत्वा दशविध बाह्यपरिग्रहाद्विनिवृत्तः स्वच्छ ः संतोषपरो भवति ।
अनुमतिविनिवृत्त आहारादीनामारंभाणामनुमननाद्विनिवृत्तो
भवति ।
उद्दिष्टविनिवृत्तः स्वोद्दिष्टपिंडोपधिशयनवसनादेर्विरतः सन्नेकशाटकघरो भिक्षाशनः पाणिपात्रपुटेनोपविश्य भोजी रात्रिप्रतिमादितपः समुद्यत आतापनादियोगरहितो भवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110