Book Title: Charitra Sara
Author(s): Chamundrai, Indralal Shastri, Udaylal Kasliwal
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 27
________________ शीलसप्तकवर्णनम्। २१ स्वीकृतागमाभ्यासा बंधुभिर्युःसहपरीषहैरात्मना नृपतिभिर्वा निरस्तपरमेश्वररूपा गहवासरता भवंति । नैष्ठिकब्रह्मचारिणः : समाधिग. तशिखालक्षितशिरोलिंगाः गणधरसूत्रोपलक्षितोरोलिंगाः, शुक्लरक्तवसनखंडकौपीनलक्षितकटीलिंगाः स्नातका भिक्षावृत्तयो देवतार्चनपरा भवंति । गृहस्थस्येज्या, वार्ता, दत्तिः, स्वाध्यायः, संयमः, तप इत्यार्यषट्कर्माणि भवंति । तत्रार्हत्पूनेज्या, सा च नित्यमहश्चतुर्मुखं कल्पवृक्षोऽष्टाह्निक ऐन्द्रध्वज इति । तत्र नित्यमहो नित्य, यथाशक्ति जिनगृहेभ्यो निजगृहाद्धपुष्पाक्षतादिनिवेदनं, चैत्यचैत्यालयं कृत्वा ग्रामक्षेत्रादीनां शासनदानं मुनिजनपूजनं च भवति । चतुर्मुखं मुकुटवद्धैः क्रियमाणा पूजा सैव महामहः सर्वतोभद्र इति । कल्पवृक्षोर्थिनः प्रार्थितार्थैः संतर्य चक्रवर्तिनि क्रियमाणो महः । अष्टान्हिकं प्रतीतं । ऐन्द्रध्वज इंद्रादिभिः क्रियमाणः बलिस्नपनं संध्यात्रयेऽपि जगत्रयस्वामिनः पूजाऽभिषेककरणम् । पुनरप्येषां विकल्पा अन्येऽपि पूजाविशेषाः सन्तीति । वार्ताऽसिमषिकृषिवाणिज्यादिशिल्पकर्मभिर्विशुद्धवृत्याऽर्थोपार्जनमिति । दत्तिः दयापात्रसमसकलभेदाच्चतुर्विधा । तत्र दयादत्तिरनुकंपयाऽनुग्राह्येभ्यः प्राणिभ्यस्त्रिशुद्धिभिरभयदानम् । पात्रदत्तिर्महातपोधनेभ्यः प्रतिग्रहार्चनादिपूर्वकं निरवद्याहारदानं ज्ञानसंयमोपकरणादिदानं च । समदत्तिः स्वसमक्रियाय मित्राय निस्तारकोत्तमाय कन्याभूमिसुवर्णहस्त्यश्वरथरत्नादि. दानं, स्वसमानाभावे मध्यमपात्रस्यापि दानम् । सकलदत्तिरात्मीय. स्वसंततिस्थापनार्थ पुत्राय गोत्रजाय वा धर्म धनं च समर्प्य प्रदान Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110