Book Title: Charitra Sara
Author(s): Chamundrai, Indralal Shastri, Udaylal Kasliwal
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 23
________________ शीलसप्तकवर्णनम् । गृहीतं, संकल्पभंगे कुतः सत्पुरुषता ? ततः काकमासाम्यवहरणं न करिष्यामीति प्रतिज्ञाने समुपलक्षिततदीयाकूतस्तं मांसमुपयोजयितुं सौरपुराधिपतिः शूरवीरनामा तस्य मैथुनः समागच्छन् वनगहनगतवटतरोरधः कांचिदभिरुदतीं समीक्ष्य 'कथय केन हेतुना रोदिष्येका त्वम् ' इत्यनुयुक्ता साऽवोचदहं यक्षी । तव श्यालकं बलवदामयपरिपीडितं मांसभक्षणविरमणव्रतफलेन मे भविष्यंतमधिपति भवानद्य मांसभोजनेन नरकगतिभागिनं कर्तुं प्रारभत इति रोदनमनुभवामीति तयोदितः । श्रद्धेहि ' तदहं न कारयिष्यामीति व्याहृत्य गत्वा तमवलोक्य शरीरामयनिराकरणहेतुस्त्वया मांसोपयोगः क्रियतामिति प्रियश्यालकवचनश्रवणेन ' त्वं प्राणसमो बंधुः श्रेय एव मे कथयितुमर्हसि, न हितार्थवचनमेतन्नरकगतिप्रापणहेतुत्वादेवं म्रियमाणोऽपि म्रिये न तु प्रतिज्ञाहानि करोमि " इति निगदितस्तदभिप्रायविधारणात्स तस्मै यक्षीनिरूपितवृत्तांतम कथयत् । सोऽपि तदाकर्णनादहिंसादिश्रावकव्रतमविकलमादाय जीवितांते सौधर्मकल्पे देवोऽभवत् । शुरवीरश्च तस्य परलोकक्रियावसान उपगच्छन् यक्षी निरीक्ष्य कथय स किं मे मैथुनस्तव पतिरजायतेति परिपृष्टा साऽवोचत् । स्वीकृतसमस्तव्रतसंग्रहस्यामुख्यव्यंतरगति. पराङ्मुखस्य सौधर्मकरूपे समुत्पत्तिरासीत् , ततो मदधिपत्वप्रच्युतः प्रकृष्टदिव्यभोगमनुभवतीति हृदयगततद्वचनार्थनिश्चितमतिरहो व्रतप्रभावः समभिलषितफलप्रदानसमर्थ इति समाधिगुप्तिमुनिसमीपे परि. गृहीतश्रावकवतो बभूव । खदिरसारो द्विसागरोपमकालं दिव्यभोग. मनुभूय समनुष्ठितभोगनिदानः स्वनीवितांते ततः प्रच्युतः प्रत्यंतपुरे Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110