Book Title: Charitra Sara
Author(s): Chamundrai, Indralal Shastri, Udaylal Kasliwal
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 18
________________ १२ चारित्रसारे स्थापनं मनसो मनोदुःप्रणिधानं, चिंतायाः परिस्पंदनादै काग्र्येणानवस्थापनं स्मृत्यनुपस्थापनमिति विस्पष्टमन्यत्वम् । प्रोषधः पर्वपर्यायवाची, शब्दादिग्रहणं प्रति निवृत्तौत्सुक्यानि पंचापीन्द्रियाणि उपेत्य तस्मिन्वसंतीत्युपवासः । उक्तं च उपेत्याक्षाणि सर्वाणि निवृत्तानि स्वकार्यतः । वसंति यत्र सः प्राज्ञैरुपवासोऽभिधीयते ॥ पर्वणि चतुर्विधाऽऽहारनिवृत्तिः प्रोषधोपवासः, निरारंभः श्रावकः स्वशरीरसंस्कारकारणस्नानगंधमाल्याभरणादिभिर्विरहितः ववकाशे साधुनिवासे चैत्यालये स्वप्रोषधोपवासगृहे वा धर्मकथाश्रवणश्रावणचिन्तनावहितांत: करणः सन्नुपवसेत् । शुचा प्रोषधोपवासस्य पंचातीचारा भवंति । अप्रत्यवेक्षिताप्रमार्जितोत्सर्गः, अप्रत्यवेक्षिताप्रमार्जितादानं, अप्रत्यवेक्षिताप्रमार्जितसंस्तरोपक्रमणं, अनादरः, स्मृत्यनुपस्थानं चेति । तत्र जंतवः संति न संति वेति प्रत्यवेक्षणं चक्षुषोर्व्यापारो मृदुनोपकरणेन यत्क्रियते प्रयोजनं तत्प्रमार्जनं अप्रत्यवेक्षितायां भुवि मूत्रपुरीषोत्सर्गेऽप्रत्यवेक्षिताप्रमार्जितोत्सर्गः । अप्रत्यवेक्षिताप्रमार्जितस्यार्हदाचार्यादिपूजोपकरणस्य गंधमाल्यधूपादेरात्मपरिधानाद्यर्थस्य वस्त्रपात्रादेश्वादानमप्रत्यवेक्षिताप्रमार्जितादानम् । अप्रत्यवेक्षिताप्रमार्जितस्य प्रावरणादेः संतस्तरणस्योपक्रमणप्रत्यवेक्षिताप्रमार्जितसंस्तरोपक्रमणम् । क्षुत्पीडितत्त्वादावश्यकेष्वनुत्साहोऽनादरः । स्मृत्यनुपस्थानं व्याख्यातमेव । उपेत्यात्मसात्कृत्य भुज्यत इत्युपभोगः, अशनपानगंधमाल्यादि सकृद् भुक्त्वा पुनरपि भुज्यत इति परिभोगः, आच्छादनप्रावरणालं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110