Book Title: Charitra Sara
Author(s): Chamundrai, Indralal Shastri, Udaylal Kasliwal
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 19
________________ शीलसप्तकवर्णनम् । कारशयनाशनगृहयानवाहनादिः तयोः परिमाणमुपभोगपरिभोगपरि माणम् । भोगपरिसंख्यानं पंचविधं त्रसघातप्रमाद बहुवधानिष्टानुपसेव्यविषयभेदात् । तत्र मधुमांसं सदा परिहर्त्तव्यं त्रसघातं प्रति निवृत्तचेतसा मद्यमुपसेव्यमानं कार्याकार्यविवेकसं मोहकर मिति तद्वर्जनं । प्रमादविरहाय केतक्यर्जुनपुष्पादीनि बहुजंतुयोनिस्थानानि, आर्द्रशृंगवेरमूलकहरिद्रार्निवकुसुमादन्यिनंतकायन्यपदेशार्हाणि; एतेषामुपसेवनेन बहुधातोऽल्पफलमिति तत्परिहारः श्रेयान् । यानवाहनाभरणादिष्वेता वदेवेष्टमतोऽन्यदनिष्टमित्यनिष्टान्निवर्त्तनं कर्त्तव्यम् । न हि व्रतमभिसंधिनियमाभावे सतीष्टानामपि चित्रवस्त्रवेषाभरणादीनामनुपसेव्यानां परित्यागः कार्ये यावज्जीवं । अथ न शक्तिः कालप रिच्छेदेन वस्तुपरिमाणेन च शक्त्यनुरूपं निवर्त्तनं कार्यम् । उपभोगपरिभोगपरिमाणत्रतस्यातीचाराः पंच भवंति । सचित्ताहारः सचित्तसंबंधाहारः, सचित्तसन्मिश्राहारः, अभिषवाहारः, दुःपक्काहार श्चेति । तत्र चेतनावद्द्द्द्रव्यं सचित्तं हरितकायः तदभ्यवहरणं सचित्ता हारः । सचित्तवतोपश्लिष्टः सचित्तसंबद्धाहारः । सचित्तेन व्यतिकीर्णः सचित्तसन्मिश्राहारः । सौवीरादिद्रवो वा वृष्यं वाऽभिषवाहारः । सांतस्तं दुलभावेनातिक्लेदनेन वा दुष्टः पक्को दुःपक्काहारः । संबंधमिश्रयोरयं भेद, संसर्गमात्रं संबंधः, सूक्ष्मजंतुव्याकीर्णत्वाद्विभागी कर्तुमशक्यः सन्मिश्रः । एतेषामभ्यवहरणे सचित्तोपयोग इंद्रिय मदवृद्धिर्वातादिप्रकोपो वा स्यात् । तत्प्रतीकारविषये पापलेपो भवति । अतिथयश्चैनं परिहरेयुरिति । संयममविनाशयन्नततीत्यतिथिरथवा नास्य तिथिरस्तीत्य तिथि Jain Education International For Private & Personal Use Only १३ www.jainelibrary.org

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110