Book Title: Chaityavandan Chauvisi
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Abhinav Shrut Prakashan

View full book text
Previous | Next

Page 78
________________ [७२] चैत्यवंदन मूर्ती विभान्त्यत्र विभातसन्ध्याः , सद्धर्मकर्मप्रकृताववन्द्या, मूर्तिर्यदीयाऽवसरं विवेका—दित्योदयार्थ ददते प्रवेका....३ धराधिराजो धर एव धन्यः, सीमासुसीमारमणोनचान्यः, कुले यदीये कमले मराल-लीलां ललौ यःसुषमाविशाल:....४ प्रवालबालारुणपद्मराग-रम्याङ्गकान्तिः परिमुक्तरागः, षडन्तरारिक्षयकारशक्ति, षष्ठो जिनो यच्छतु मे सुयुक्ति....५ सुपार्श्वनाथ नुं [७] श्रीप्रतिष्ठनरनाथतनूजम्, सुप्रतिष्ठनरनिमितपूजम्, देवदेवमभिनौमि सुपार्श्वम्, देवताऽधिपतिसेवितपार्श्वम्....१ स्वस्तिकारणमनोहरदृष्टिम्, स्वस्किाङ्कितपदं कृततुष्टिम्, यं जनस्य भजतो ननु पृथ्वी-सूनुमृद्धिरिह राजति पृथ्वी....२ दुःखदुर्गतिविरोधिविकारा-स्तावदेव भविनां स्युरपाराः, यस्य यादवतुलं त्वभिधानं, स्मर्यते न शुभसिद्धिविधानम्....३ दर्शनश्रुतलघूरुचरित्रा--रागताः शिवफला इतिनेत्राः, येन जल्पितुमिवाच्चपताका, उच्छ्रिताः प्रकटपञ्चफणाङ्काः....४ हारिवारिजरजः करणरङ्गत् पिञ्जरांजगसुभगः शुभचंगः, श्रीसुपार्श्वभगवानघसंग--च्छेदकोऽस्तु गुणगौरवतुंगः....५ चंद्रप्रभु नु [८] चंद्रोपलप्रवरचंद्रमयूखचंद्र-गौरांगसंगतगुणाश्रममुक्ततंद्र ! , चंद्रप्रभ त्रिभुवनाधिपते प्रसीद सौभाग्यसुंदरविभो कुशलावलीद.१ श्रीखंडपांडुरमुदारतनुं भवंतं, व्याख्यानसद्मनि सुवागमृतं किरतं, दृष्ट्वा जनेऽजनिजनेति ननुप्रतीतिगंगागिरेहिमवतःप्रसरीसरीति.२ विश्वेशशीतरुचिरेषकलालयोपि,पीयूषपात्रमपिऋक्षगणाधिपोपि, त्वांसेवतेऽधिकसमृद्धिकृते नु नित्यं,राजा न तृप्यति ततःकियतेति सत्यं उद्दामसेनमहसेनवसुंधरेश-श्रीलक्ष्मणासुतविवेककरोपदेश !, चंद्रांक भव्यजनचंद्रकिधूमयोने,सौम्यां दृशं मयि निधेहि शुभश्रियोने अष्टांगयोगकुशलेष्ट गुणोष्टसिद्धि-दाताष्टकर्मबलनिर्दलनप्रसिद्धिः, अष्टासु मे श्रवणमातृषु वत्सलत्वमाप्तोष्टमो दिशतु विश्रुतसत्यसत्वः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110