Book Title: Chaityavandan Chauvisi
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Abhinav Shrut Prakashan
View full book text
________________
चोवीसी
अभिनंदन नुं [४] गुणौघमंदारनिवासनंदनं, मिथ्यात्वपापोपशमाय चंदनम्, श्रीसंवरक्ष्मारमणस्य नंदनं, मुदा स्तुवे तीर्थकराभिनंदनं .... १ यं संस्तुवानस्य दृशातरंगिनी, सहस्रचंद्रांशुरयात् प्रसर्पिनी, क्षेत्रे नदीमातृकतागते हरेवृद्धि ययौ भक्तिलतामनोहरे.... २ भजन् वनौका अपि यस्यनिश्चलं, पादांबुजं नित्यमहोमहाफलं, जिनेंद्रवाच्यं हरितामसंगतः, स्यान्निष्फलं नो गुरुसेवनं ततः....३ पराभवन् योगबलेन संवरद्विषं सुविस्तारितराजिसंवरः, ददातु देवो नवमं रसं वर - स्वजन्मसंतर्पित राजसंवरः....४ ध्यानं चतुर्थं समवाप्य विश्रुतं योऽर्थं चतुर्थं भजतिस्म शाश्वतं अरे चतुर्थे शुभितः शुभोदयश्चतुर्थतीर्थप्रभुरस्तु सश्रिये....५ सुमतिनाथ नुं [ ५ ]
[ ७१]
मंगलावलीनदीमहार्णवं,
मंगलाप्रवरकुक्षिसंभवम्,
मेघभूपतिसुतं दयालता - मेघमञ्चत जिनं जना रताः.... १ मातुरुत्तमतमाभवन्मतिर्गर्भगेऽपि ननु यत्र जाग्रति, संस्मृतेरप्यदोषधिषणाप्रजायते.... २ स्मेरमुत्तमगुणालिकोमलम्,
अत्र किं कुतुकमस्य अंगुलीदलविराजिकोमलम्,
यस्य शस्यपदपद्मयामलम्, संश्रयन्नलभते नयामलम्... ३ पंचबाणबलभंजनक्षमम्, पंचभेदिविषय छिदागमम्, पंचसार समितिप्रपंचकम्, पंचमं नमत तीर्थनायकम्....४ कणिकारकुसुमासमप्रभः, क्रौंचलक्षितपदो हताशुभ:, तीर्थनाथसुमतिर्मनोति यच्छतान्मम तथा चनिर्वृत्तिम्.... ५
पद्मप्रभु नुं [६] प्रशस्तपद्माकरवत्सुवृत्तः, श्रीसद्मपद्माङ्कपदोऽतिवित्तः, पद्मप्रभः पातु विभुविभाव-विभावरीयान् कृतकर्मलाव..... १ सरोरुहंराजगणेन बन्ध - मानं
सद्यः,
यदहिश्रयणेन प्रमाणमेतन्महदाश्रयस्य....२
निरास्य,
For Private & Personal Use Only
पराभवं राजभवं
Jain Education International
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/4875e2b3929deee2e0a5582f343c2ad62de2720857c6fa142f26094842a5f24b.jpg)
Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110