Book Title: Chaityavandan Chauvisi
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Abhinav Shrut Prakashan
View full book text
________________
चौवीसी
निःसंशयमेव जगत्त्रयवन्दिताः, सद्भावेन भवन्ति सुदृष्ट्यानन्दिताः । कृत्यं स्वोचितमेव यतः किल कारणं, जनयति नात्मविरुद्ध मिहाऽसाधारणम्....३
नमिनाथ तु [२१]
3
नमीश ! निर्मलात्मरूप ! सत्यरूप ! शाश्वतं परोर्ध्वसिद्धिसौधमूर्ध्नि सत्स्वभावतः स्थितम् । विधाय मानसाल्जकोशदेशमध्यवर्तिनं, स्मरामि सर्वदा भवन्तमेव सर्वदर्शिनम् .... १ प्रफुल्ल कोञ्चलाञ्छन ? ग्रभूततेजसोऽद्य ते, दिवाकरस्य वा महेश्वराऽभिदर्शनेन मे । प्रमादवधिनी सुदुर्मतिर्निशेव दुर्भगा, गता प्रणाशमाशु हत्कजे विनिद्रताऽभवत्...२ निरस्तदोषदुष्टकष्टकार्यवर्त्यसंस्तवो, भवे भवे भवत्पदाम्बुजैकसेवकः प्रभो ! । भवेयमीदृशंभृशं मदीयचित्तचिन्तितं, तव प्रसादतो भवत्ववन्ध्यमेव सत्वरम्....३ नेमिनाथ तु [२२]
"
विशुद्धविज्ञानभृतां वरेण, शिवात्मजेन प्रशमाकरेण । येन प्रयासेन विनैव कामं विजित्य विक्रान्तनरं प्रकामम्....१ विहाय राज्यं चपलस्वभावं, राजीमती राजकुमारिकां च । गत्वा सलीलं गिरनारशैलं भेजे व्रतं केवलमुक्तियुक्तम्.... २ निःशेषयोगीश्वरमौलिरत्नं जितेन्द्रियत्वे विहितप्रयत्नम् । तमुत्तमामन्दनिधानमेकं नमामि नेमि विलसद्विवेकम् ....३ पार्श्वनाथ नुं [२३] श्रयामि तं जिनं सदा मुदा प्रमादवजितं, स्वकीयवाग्विलासतो जितोरुमेघगर्जितम् ।
For Private & Personal Use Only
Jain Education International
"
[=ε]
,
www.jainelibrary.org
Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110