SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ चौवीसी निःसंशयमेव जगत्त्रयवन्दिताः, सद्भावेन भवन्ति सुदृष्ट्यानन्दिताः । कृत्यं स्वोचितमेव यतः किल कारणं, जनयति नात्मविरुद्ध मिहाऽसाधारणम्....३ नमिनाथ तु [२१] 3 नमीश ! निर्मलात्मरूप ! सत्यरूप ! शाश्वतं परोर्ध्वसिद्धिसौधमूर्ध्नि सत्स्वभावतः स्थितम् । विधाय मानसाल्जकोशदेशमध्यवर्तिनं, स्मरामि सर्वदा भवन्तमेव सर्वदर्शिनम् .... १ प्रफुल्ल कोञ्चलाञ्छन ? ग्रभूततेजसोऽद्य ते, दिवाकरस्य वा महेश्वराऽभिदर्शनेन मे । प्रमादवधिनी सुदुर्मतिर्निशेव दुर्भगा, गता प्रणाशमाशु हत्कजे विनिद्रताऽभवत्...२ निरस्तदोषदुष्टकष्टकार्यवर्त्यसंस्तवो, भवे भवे भवत्पदाम्बुजैकसेवकः प्रभो ! । भवेयमीदृशंभृशं मदीयचित्तचिन्तितं, तव प्रसादतो भवत्ववन्ध्यमेव सत्वरम्....३ नेमिनाथ तु [२२] " विशुद्धविज्ञानभृतां वरेण, शिवात्मजेन प्रशमाकरेण । येन प्रयासेन विनैव कामं विजित्य विक्रान्तनरं प्रकामम्....१ विहाय राज्यं चपलस्वभावं, राजीमती राजकुमारिकां च । गत्वा सलीलं गिरनारशैलं भेजे व्रतं केवलमुक्तियुक्तम्.... २ निःशेषयोगीश्वरमौलिरत्नं जितेन्द्रियत्वे विहितप्रयत्नम् । तमुत्तमामन्दनिधानमेकं नमामि नेमि विलसद्विवेकम् ....३ पार्श्वनाथ नुं [२३] श्रयामि तं जिनं सदा मुदा प्रमादवजितं, स्वकीयवाग्विलासतो जितोरुमेघगर्जितम् । For Private & Personal Use Only Jain Education International " [=ε] , www.jainelibrary.org
SR No.003635
Book TitleChaityavandan Chauvisi
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year
Total Pages110
LanguageHindi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy