Book Title: Chaityavandan Chauvisi
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Abhinav Shrut Prakashan

View full book text
Previous | Next

Page 90
________________ [८४] चैत्यवंदन चंद्रप्रभु नु [८] अनन्तकान्तिप्रकरेण चारुणा, कलाधिपेनाश्रितमात्मसाम्यतः । जिनेन्द्र ! चन्द्रप्रभ ! देवमुत्तमं, भवन्तमेवात्महितं विभावये....१ उदारचारित्रनिधे ! जगत्प्रभो! , तवाननाम्मोजविलोकनेन मे। व्यथा समस्ताऽस्तमितोदितं सुखं,यथा तमिस्रा दिवमर्कतेजसा..२ सदैव संसेवनतत्परे जने, भवन्ति सर्वेपि सुराः सुदृष्टयः । समग्रलोके समचित्तवृत्तिना, त्वयैव संजातमतो नमोऽस्तु ते....३ सुविधिनाथ नु [६] विश्वाभिवन्द्य मकराङ्किरपादपद्म !, सुग्रीवजात ! जिनपुङ्गव ! शान्तिसद्म । भव्यात्मतारणपरोत्तमयानपात्र !, मां तारयस्व भववारिनिधेविरूपात....१ निःशेषदोषविगमोद्भवमोक्षमार्ग, भव्याः श्रयन्ति भवदाश्रयतो मुनीन्द्र ! । संसेवितः मुरमणिर्बहुधा जनानां, किं नाम नो भवति कामितसिद्धिकारी ?....२ विज्ञं कृपारसनिधि सुविधे ! स्वयंभूमत्वा भवन्तमिति विज्ञपयामि तावत् । देवाधिदेव ! तव दर्शनवल्लभोऽहं, शश्वद् भवामि भुवनेश ! तथा विधेहि....३ शीतलनाथ नु [१०] कल्याणांकुरवर्धने जलधरं सर्वाङ्गिसंपत्करं, विश्वव्यापियश:कलापकलितं कैवल्यलीलाश्रितम् । नन्दाकुक्षिसमुद्भवं दृढरथक्षोणोपतेर्नन्दनं, श्रीमत्सूरतवन्दिरे जिनवरं वन्दे प्रभुं शीतलम्....१ विश्वज्ञानविशुद्धसिद्धिपदवीहेतुप्रबोधं दधद्, भव्यानां वरभक्तिरक्तमनसां चेतः समुल्लासयन् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110