Book Title: Chaityavandan Chauvisi
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Abhinav Shrut Prakashan
View full book text
________________
चौवीसी
अभिनंदन नुं [४]
विशदशारद सोमसमाननः, कमल कोमलचारुविलोचनः । शुचिगुणः सुतरामभिनन्दनं, जय सुनिर्मलताञ्चितभूघनः.... १ जगति कान्तहरीश्वरलाञ्छित - क्रमसरोरुह भूरिकृपानिधे । ममसमीहित सिद्धिविधायकं त्वदपरं कमपीह न तर्कये....२ प्रवरसंवर ! संवरभूषते - स्तनय नीतिविचक्षण ! ते पदम् । शरणमस्तु जिनेश ! निरन्तरं रुचिरभक्तिसुयुक्तिभृतो मम.... ३ सुमतिनाथ नुं [ ५ ]
,
सुवर्णवर्णो हरिणा सवर्णो मनोवनं मे सुमतिर्बलीयान् । गतस्ततो दुष्टकुदृष्टिराग- द्विपेन्द्र ! नैव स्थितिरत्र कार्या.... १ जिनेश्वरो मेघनरेन्द्रसूनु- र्घनोपमो गर्जति मानसे मे । अहो गुरुद्वेषहुताशन ! त्वा - मसौ शमं नेष्यति सद्य एव .... २ इतः सुदूरं व्रज दुष्टबुद्धे ! समं दुरात्मीयपरिच्छदेन । सुबुद्धिर्ता सुमतिजिनेशो, मनोरमः स्वान्तमितो मदीयम्....३ पद्मप्रभु नुं [६]
,
उदारप्रभामण्डलैर्भासमानः कृताऽत्यन्तदुर्दान्तदोषापमानः । सुसीमाङ्गज ! श्रीपतिर्देवदेवः सदा मे मुदाऽयर्चनीयस्त्वमेव .... १ यदीयं मनःपङ्कजं नित्यमेव त्वयाऽलंकृतं ध्येयरूपेण देव | प्रधानस्वरूपं तमेवाऽतिपुण्यं, जगन्नाथ जानामि लोके सुधन्यम् .. २ अतोऽधीश पद्मप्रभाऽऽनन्दधाम, स्मरामि प्रकामं तवैवाङ्ग नाम । मनोवाञ्छितार्थप्रदं योगिगम्यं यथा चक्रवाको रवेर्धामरम्यम्... ३ सुपार्श्वनाथ [७]
जयवन्तमनन्तगुणैनिभूतं, पृथिवीसुतमद्भुत रूपभृतम् । निजवीर्य विनिर्जितकर्मबलं, सुरकोटिसमाश्रितपत्कमलम्.... १ निरुपाधिकनिर्मलसौख्यनिधि, परिवर्जितविश्वदुरन्तविधिम् । भववारिनिधेः परपारमितं, परमोज्ज्वल चेतनयोन्मिलितम् ....२ कलधौतसुवर्णशरीरधरं. शुभपार्श्वसुपार्श्वजिनप्रवरम् । विनयावनतः प्रणमामि सदा, हृदयोद्भवभूरितरप्रमुदा... ३
For Private & Personal Use Only
Jain Education International
,
[ ८३]
1
"
www.jainelibrary.org
Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110