Book Title: Chaityavandan Chauvisi
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Abhinav Shrut Prakashan
View full book text
________________
[७४]
चैत्यवंदन
-
दशविधयतिधर्मोल्लासवृद्धयै त्रिकालम्,
दशमजिनवरेन्द्रम् नौलि भावादनालम्...५
श्रेयांसनाथ - [११] श्रेयोलक्ष्मीराजमानारविन्दम्, पादद्वन्द्वोपास्तिकृदेववृन्दम्, साधुश्रेणिकौमुदीशुक्लपक्षम्, श्रीश्रेयांसं संश्रयेस्तारिपक्षम् ....१ निर्वाणश्रीकंठमाणिक्यहार- क्लेशध्वान्तच्छेदसूर्यावतार !, वाच्यातीतस्फीतवृत्तप्रतीत !, त्रायेयाऽहं नत्वया पापभीतः....२ तृष्णालोलोल्लोलमालाकरालम्,मोहाम्भोधि प्रोच्छलत्पङ्कजालम्, उत्तीर्णास्ते ये मतं तेऽधिरूढाः,स्वामिन् श्रीमन् यानपात्रं ह्यमूढाः.३ दम्भोलोभोमोहमायाप्रमादाः, कामक्रोधभ्रान्ति मिथ्याविवादाः, देवासन्ना नैव तेस्युर्वराकाः, सिंहस्येव स्फूर्जत: फेरुपाकाः....४ माद्यन्मायासूर्यजाकामपाल ! , श्रेयान् श्रेयःकल्पवृक्षालवाल, नेतश्चेतश्चोक्षभावेन युक्तम्, त्वत्सेवातो मेऽस्तु कालुस्यमुक्तम्..५
वासुपूज्य नु [१२] । वसुपूज्य राजकुलकीतिकर, हरिपूज्यपादमतुद्धिभरं, प्रभुवासुपूज्यभगवंतमहं, प्रणमामि भव्यजनदत्तमहं....१ भुवनावतंसभविनोकुशला, भगवन् सुखैकरसिकाः सकलाः, ननु तन्निमित्तमतुलात्तिहरं, न भवंतमीश्वरंभजति परं....२ विषयाविपाकविषभोगसमा,निखिला:कषायरिपवो विषमाः, परिहृत्य तानिति कृती रमते, परिणामहारिणि तवेश ! मते....३ भववासिना सुखकलाविरला,विपुलापि राज्यकमला तरला, भवतःप्रभोरभिलषामि नतः,स्थिर (मेक ) मेव शिवसौख्यमत....४: तरुणांशुमालिसमकांतिकलः, कलिताखिलत्रिभुवनो विमलः, विभुवासुपूज्यप्रभुपूज्यपद, द्वितयःप्रसीदतु स मे सुखसंपदः....५
_ विमलनाथ नु [१३] यशसा सकलेंदुमंडलं, जितवंतं विकलंकमुज्वलं, मदमेघघटामहाबलं, विमलं नौमि जिनं सुनिर्मलं....१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110