Book Title: Chaityavandan Chauvisi
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Abhinav Shrut Prakashan
View full book text
________________
[ ७६ ]
धर्मनाथ तु [१५] धर्मोद्यमारामलसद्वसंतं, भव्यांगिनां चित्तगृहे वसंतं, श्रीधर्मनामानमधीशमीडे, लीनं शिवे सर्व निवृत्तपीडे.... १ चंद्रप्रदीपद्युपतीनुदीतान् सर्वानतीत्योल्लसता प्रतीतान्, केनापि नित्यं स्वपरावभासि - ज्ञानप्रकाशेन विभो विभासि....२ आदर्शमध्ये मित एवतावद्धीनोधिकोवाप्रतिभातिभावः, त्रैलोक्यदर्शी निखिलांस्त्वमेव, भावानृतान् पश्यसि देवदेव.... ३ कर्माकुरात्यंतभिदे लवित्र, शुध्यै महातीर्थजलं पवित्रं, विचारयंस्ते विमलं चरित्रं, को नाम चित्ते नदधाति चित्रं....४ श्रीभानुवंशाम्बुजचंडभानुः प्रभानुगामी कृतमेरुसानुः, धर्मो जिनः पातु निरस्तमारिः, श्रीसुव्रताकुक्षिदरीमृगारि:...५ शांतिनाथ नुं [१६]
जगत्त्रयीजीवनजागरूक ! प्रभावशांते ! यतलोभलुक !, जय प्रभो ! मन्मथदंदशक !, सुपर्णसंकंदनशस्यशूक !.... १ वसुंधरावल्लभविश्वसेन कुलप्रदीपक्षितमोहसेन !, नमोऽस्तु ते श्रीअचिरांगजात !, सुजातरूपद्युतिदेह ! तात ! ....२ स्थितस्य गर्भेपि तव प्रभावः, स्वयंभुविक्लेशहरः स्वभावः, समुल्ललासावृतिमध्यगस्य, गंधो यथा जातिमणीवकस्य....३ त्वया यथारक्षि कपोतपोतः, संपन्नकष्टाद्व्यसनाब्धिपोत !. तथैव मां रक्ष विभो ! प्रमाद - निषादबंधाद्विहितप्रसादः....४ भवानभूः पंचमचक्रवर्ती, हरन् जनानां भुवि काममत:, श्रुतस्तथा षोडश तीर्थनाथस्तनुष्व शांते ! समतां ममाथ.... ५ कुथुनाथ नुं [ १७ ]
कल्याणकोटीकमला महोत्पलं, कालत्रिकज्ञानलसत्कलाकलं, आनम्य सम्यक्कमनीयभावतः, कुंथं कृतार्थी भविताहमाहतः.... १ जीव प्रदेशाः समयापराणवः, प्रत्यर्थमंतातिगपर्यवोद्भवः, निःशेषमेतत्प्रतिभाति ते स्थिर, ज्ञाने तदस्मात्परमस्तिकिकरं... २
For Private & Personal Use Only
Jain Education International
चैत्यवंदन
,
www.jainelibrary.org
Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110