Book Title: Bhaktamarstava Vrutti
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 5
________________ डिसेम्बर-२००९ कः क्षमः - सक्वो (शक्तः) ?, न कोऽपि । किं कर्तुं ?, वक्तुं - भाषितुम् । कान् ?, गुणान् ज्ञानादीन् । कस्य ? ते-तव । कीदृशोऽपि ? सुरगुरुप्रतिमोऽपि-बृहस्पतितुल्योऽपि । कया ? बुद्ध्या-सेमुख्या (शेमुष्या) । हे गुणसमुद्र ! – गुणरत्नाकर ! । कीदृशान् ? शशाङ्ककान्तान् - चन्द्रवदुज्ज्वलान् । अत्रार्थेऽर्थान्तरन्यासमाह-को वा तरीतुं-प्लोतुं, अलं-समर्थः ?। नैव कश्चित् । कम् ? अम्बुनिधि-समुद्रम् । काभ्याम् ? भुजाभ्यां-बाहुभ्याम् । कीदृशम् ? कल्पान्तकालपवतोद्धतनक्रचक्रम्, कल्पान्तकाले [आ]युक्षयसमये दशितम् ॥४॥ यद्येवं, तर्हि किमर्थं स्तवने प्रवृत्तः ? इत्याहसोऽहं तथापि तव भक्तिवसा (शा)न्मुनीश ! कर्तुं स्तवं विगतशक्तिरपि प्रवृत्तः । प्रीत्याऽऽत्मवीर्यमविचार्य मृगो मृगेन्द्रं नाभ्येति किं निजशिशोः परिपालनार्थम् ? ॥५॥ यद्यपि वक्तुं गुणान् तव न कोऽपि शक्तः तथापि, सोऽहं विगतशक्तिरपिसामर्थ्यहीनोऽपि । हे मुनीश ! – गणधरादिमुनिस्वामिन् ! । प्रवृत्तः-प्रवृत्तिमान् । किं ? कर्तुं - स्तवं विधातुम् । कस्य ? तव-भवतः । कुतः ? भक्तिवसा(शा)त् – आन्तरभावप्रेरितः सन् । अत्रार्थे अर्थान्तरन्यासमाह- किं नाभ्येति ?-आभिमुख्येन किं न गच्छति ?। कोऽसौ ? मृगो-हरिणः । कम् ? मृगेन्द्रं-सिंहम् । गच्छत्येव । कया ? प्रीत्या-प्रणयेन । किं कृत्वा ? अविचार्य-अपर्यालोच्य । किं तद् ? आत्मवीर्यं-निजबलम् । किमर्थम् ? परिपालनार्थम् । कस्य ? निजशिशोः - आत्मीयबालस्य । यथा मृगो निजबालरक्षणार्थं सिंहाभिमुखं प्रवृत्तः, तथाऽहमपि स्तवं कर्तुं प्रवृत्त इति ॥५॥ नन्वल्पश्रुतस्य स्तवकरणे कथं मुखरता भवति ? इत्याह - अल्पश्रुतं श्रुतवतां परिहासधाम त्वद्भक्तिरेव मुखरीकुरुते बलान्माम् । यत् कोकिलः किल मधौ मधुरं विरौति तच्चारुचूतकलिकानिकरैकहेतुः ॥६॥ त्वद्भक्तिरेव-भवत्सेवैव मां मुख(?) मुखरीकुरुते-वाचालयति । कुतः ? बलात्-हठात् कारण[तः] । कीदृशं माम् ? अल्पश्रुतं-स्वल्पशास्त्रावबोधम् । तथा परिहासधाम-चसूरीस्थानम् । केषाम् ? श्रुतवतां-बहुशास्त्रज्ञानां विदुषाम् ।

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23