Book Title: Bhaktamarstava Vrutti
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 19
________________ डिसेम्बर-२००९ ___ हरिणाधिपोऽपि-सिंहोऽपि, आस्तामन्यः कर्यादिः । नाक्रामतिनाश्लिष्यति । कं ? क्रमयुगाचलं-पादपद्मद्वयं गिरिमाश्रितं-आरूढं तत्सम्बद्धम् । कस्य ? ते-तव । कीदृशं ? क्रमगतं-फालाविषयम् । कीदृशः ? बद्धक्रमःरचितफालः । तथा मत्तेभकुम्भगलदुज्वलशोणिताक्तमुक्ताफलप्रकरभूषितभूमिभागःमत्तेभस्य-क्षीबकरिणः कुम्भ:-शिरःस्थलं, तस्माद् गलत्-क्षरद् उज्वलं-निर्मलमच्छं रक्तं-रुधिरं, तेनाक्तानि-अवलिप्तानि यानि मुक्ताफलानि-मौक्तिकानि, तेषां प्रकर:संघातः, तेन भूषितो-ऽलङ्कृतो भूमिभागो-भूप्रदेशो येन स तथोक्तः । अनेन विशेषणेनाऽस्याऽतिशूरत्वादिगुणाः प्रतिपादिताः ॥३५॥ साम्प्रतं प्रचण्डाग्निदर्पहरत्वेन भगवना(न्ना)म्नो जलरूप[त्व]माहकल्पान्तकालपवनोद्धतवह्निकल्पं दावानलं ज्वलितमुज्वलमुत्फु(त्स्फु)लिङ्गम् । विश्वं जिघत्सुमिव सन्मुखमापतन्तं त्वं ना (त्वन्ना)मकीर्तनजलं स(श )मयत्यशेषम् ॥३६॥ हे जिन ! त्वन्नामकीर्तनजलं-भवदभिधानोच्चारणोदकं स(श)मयतिनिवर्तयति । कं? दावानलं-दावाग्निम् । कीदृशं ? कल्पान्तकालपवनोद्धतवह्नि कल्पं-ज(ल)यकालवातोद्भटाग्निसदृशम् । तथाऽशेषं-समस्तम् । तथा ज्वलितंप्रदीप्तं । तथोज्वलं-उद्दीप्तम् । तथोत्स्फुलिङ्ग-उद्गताग्निकणम् । किं कुर्वन्तं ? आपतन्तं-आगच्छन्तम् । कथं ? सन्मुखं-अभिमुखम् । किं कुर्वन्तमिव ? जिघत्सन्त(जिघत्सु)मिव-भक्षितुमिव । किं तत् ? विश्वं-जगत् । अनेन च विशेषणवृन्देणाऽतिप्रचण्डत्वेन केनाप्यप्रतिसंहार्यत्वं अग्नेर्दर्शयति ॥३६॥ ___ अधुना क्रोधोद्भटादिगुणस्य सर्पस्य क्रमयुगो (गा)क्रमणेन भगवंना(वन्ना)-म्नो नागदमनीत्वमाह स्तवकार: रक्तेक्षणं समदकोकिलकण्ठनीलं क्रोधोद्धतं फणिनमुत्फणमापतन्तम् । ना(आ)क्रामति क्रमयुगेन निरस्तस( श)ङ्कः त्वन्नामनागदमनी हृदि यस्य पुंसः ॥३७॥ स नर आक्रामति-आप्नोति-उपमर्दयति । केन ? क्रमयुगेन-पादद्वयेन ।

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23