Book Title: Bhaktamarstava Vrutti
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 18
________________ अनुसन्धान-५० स्थगितभानुकरप्रतापं-आच्छादितरविकिरणप्रभावं । तथा मुक्ताफलप्रकरजालविवृद्धशोभं-मुक्ताफलप्रकरजालेन मौक्तिकविसरस्तबकेन विशेषेण वृद्धा-वृद्धिं गता शोभा-श्रीर्यस्य तत् तथोक्तम् । किं कुर्वन्(त्) ? प्रख्यापयत्-प्रकटयत्, त्रिजगत:त्रिभुवनजन्तूनां परमेश्वरत्वं-प्रकृष्टप्रभुत्वं, छत्रत्रयं हि त्रिभुवनप्रभुत्वलक्षणम् ॥३१॥ हे जिनेन्द्र !-तीर्थकरदेव । तत्र-प्रदेशे विबुधा-देवाः पद्मानिकाञ्चनकमलानि परिकल्पयन्ति-रचयन्ति, यत्र-प्रदेशे तव पादौ-चरणौ पदानिन्यासान् धत्तः-कुरुतः । कीदृशौ ? उन्निद्रहेमनवपङ्कजपुञ्जकान्तिपर्युल्लसन्नखमयूरवशिखाभिरामौ-उन्निद्रहेमनवपङ्कजपुञ्जस्येव विकसितसौवर्ण(?) कृतिन् (?) पद्मस्येव कान्तिर्यासां तास्तथोक्ताः, ताश्च ताः पर्युल्लसन्नखमयूखशिखाश्चप्रसरन्नखकिरणज्वालाश्च ताः, ताभिरभिरामौ-अभिरमणीयौ अभू(?) तौ तथोक्तौ ॥३२॥ अर्थापेक्षयैकं कुलकम् । यद्वा भिन्नक्रिया - भिन्ना एवैते श्लोकाः ॥ जिनाश्रितानां करिभयाभावमाहात्म्यसूचनेन कवि:श्च्योतन्मदाविलविलोलकपोलमूल-मत्तभ्रमभ्रमरनादविवृद्धकोपम् । ऐरावताभमिभमुद्धतमापतन्तं दृष्ट्वा भयं भवति नो भवदाश्रितानाम् ॥३४॥ ___ नो-न भवति-उत्प]द्यते । किं तद् ? भयं-त्रासः । केषां ? भवदाश्रितानां-युष्मत्सेवाप्राप्तानाम् । किं कृत्वा ? दृष्ट्वा-ऽवलोक्य । कम् ? इभं-करिणम् । किं कुर्वन्तं ? आपतन्तं-आगच्छन्तम् । कीदृशं ? उद्धतंदो द्धरम् । तथा ऐरावताभं-इन्द्र करिसमानम् । कथम्भूतं ? श्च्योतन्मदाविलविलोल-कपोलमूलमत्तभ्रमभ्रमरनादविवृद्धकोपं-त्र्योतन्मदेनक्षरद्दानजलेन आविलं-स्या(श्या)मलं यत् कपोलमूलं-गल्लप्रथमभागः, तस्मिन् मत्तभ्रमभ्रमराः क्षरच्चलभृङ्गाः, तेषां नादः-शब्दः, तेन विवृद्धो-वृद्धि गतः कोपः-क्रोधो यस्य स यथोक्तस्तम् ॥३४॥ भवतः पादाश्रयणस्य फलमाह स्तवकारःमत्तेभकुम्भगलदुज्ज्वलशि( शो )णिताक्त __मुक्ताफलप्रकरभूषितभूमिभागः । बद्धः(द्ध)क्रमः क्रमगतं हरिणाधिपोऽपि नाक्रामति क्रमयुगाचलसंश्रितं ते ॥३५॥

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23