Book Title: Bhaktamarstava Vrutti
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 20
________________ अनुसन्धान-५० कीदृशः सन् ? निरस्तशङ्को-ऽपगतखादनसन्देहः । कमाक्रामति ? फणिनंनागम् । कीदृशं? रक्तेक्षणं-अरुणनेत्रं, तथा समदकोकिलकण्ठनीलं-मत्तपिकगलकृष्णम् । तथा क्रोधोद्धतं-कोपोद्भटं, तथोत्फणं-उद्गतफणाभोगं, तथाऽऽपतन्तंआगच्छन्तम् । यस्य पुंसः पुरुषस्य हृदि-चित्ते वर्तते । कोऽसौ ? त्वन्नामनागदमनी-भवदभिधानसर्पदमनौषधीविशेषः ॥३७॥ ___ इदानीं भगवन्नाम्न एवोच्चारणस्य शक्रसैन्यभेदकत्वमाह कविःवल्गत्तुरङ्गगजगर्जितभीमनाद-माजौ बलं बलवतामपि भूपतीनाम् । उद्यदिवाकरमयूखशिखापविद्धं त्वत्कीर्तनात् तम इवाशु भिदामुपैति ॥३८॥ ___ भूपतीनां-नृपाणां बलं-सैन्यं चतुरङ्गं भिदां-भेदमुपैति-गच्छति । कस्मात् ? त्वन्नामकीर्तनाद्-भवदभिधानोच्चारणात् । किमिव ? तम इवअन्धकारमिव । कीदृशं सद् ? उद्यद्दिवाकर [मयूख] शिखापविद्धंउद्गच्छद्रविकिरणपरम्पराहतं । कीदृशानां भूपतीनाम् ? बलवतां-शक्तिमतामपि । कीदृशं बलं ? वल्गत्तुरङ्ग-गजगर्जितभीमनादं-वल्गत्तुरङ्गाश्च-इतस्ततश्चलदश्वाश्च गजाश्च-करिणश्च ते तथोक्ताः, तेषां गर्जितं, तदेव भीमो-भयकारको नादः-शब्दो यत्र तत् तथोक्तम् । क्व ? आजौ-सङ्ग्रामे ॥३८॥ इदानीं भगवत्पादसेविनां सङ्ग्रामे जयमाह स्तुतिकार:कुन्ताग्रभिन्नगजशोणित[ वारि वाह-वेगावतारतरुणातुरयोधभीमे । युद्धे जयं विजितदुर्जयजेयपक्षाः त्वत्पादपङ्कजवनाश्रयिणो लभन्ते ॥३९॥ युद्धे-रणे जयं-शत्रुपराभवं लभन्ते-प्राप्नुवन्ति । के ? त्वत्पादपङ्कजवनायिणो-भवच्चरणपद्मखण्डसेविनो नराः, भवच्चरणपद्मसम्यक्सेविनो वा । समाश्रयिण इति पाठः । कीदृशाः सन्तः ? विजितदुर्जयजेयपक्षाः-पराभूतदुःखपराभवनीयशत्रुपक्षाः । कीदृशे युद्धे ? कुन्ताग्रभिन्नगजशोणितवारिवाहवेगावतार तरुणातुरयोधभीमे कुन्ताग्रेण भिन्ना-विदारिता ये गजा:-करिणस्तेषां यच्छोणितवारि-रक्तजलं तस्य वाहः-प्रवाहस्तस्मिन् वेगावतारेण-जवावतरणेन तरुणा-युवान आतुरा-भीता ये योधाः-सुभटास्तैीमे-भयकारके । अनेनात्यन्तभयकारणत्वं युद्धस्य दर्शितम् ॥३९॥

Loading...

Page Navigation
1 ... 18 19 20 21 22 23