Page #1
--------------------------------------------------------------------------
________________
अनुसन्धान ५०
खण्डेल्लकगच्छीय श्री शान्तिसूरि-विरचिता भक्तामरस्तव - वृत्तिः॥
सं. विजयशीलचन्द्रसूरि
केटलाक समय अगाऊ डॉ. मधुसूदन ढांकीए सूचवेलुं : भक्तामर पर शान्तिसूरिकृत एक टीका खम्भातमां छे, ते उपलब्ध टीकाओमां सौथी प्राचीन छे. तेने प्रकाशित करवानी जरूर छे. आ सूचनने याद राखीने आ वखतनी खम्भातनी स्थिरतामां आ टीकानी प्रतिलिपि ऊतारी छे, अने ते अत्रे प्रकाशित करवामां आवे छे.
खण्डेल्लक गच्छ अने शान्तिसूरि - आ बन्ने नामो टीकाना अन्तभागमां उल्लेखायेलां छे. श्रीशान्तिसूरिना सत्ताकाल विषे कोई सन्दर्भ उपलब्ध नथी. परन्तु टीकानी निराडम्बर शैली अने शब्दोना अर्थ तेमज प्रश्नोत्तरीरूपे तेनी प्रस्तुति वगेरे जोतां १२मा शतकथी अर्वाचीन ते होय तेम जणातुं नथी.
खम्भातना शान्तिनाथ प्राचीन ताडपत्र ग्रन्थभण्डारमां क्र. २७८ पर स्थित आ टीका-प्रति २८ पत्रोनी छे. तेनी लखावट उपरथी तेओ आनुमानिक लेखन संवत् विक्रमनो १५मो शतक होवार्नु पूज्य श्रीपुण्यविजयजी महाराजे निर्देश्यु छे (Catalogue of Palm-leaf MSS. in the Shantinatha Jain Bhandara, Cambay : सं. मुनि पुण्यविजयजी, प्र. गायकवाड्झ ओरिएन्टल सिरीझ, बरोडा - नं. १४९, ई. १९६६, पृ. ४३२)
बे-एक ठेकाणे टीकांशो त्रुटित छे. एक पार्नु फाटेल होवाथी पाठ तूटेलो छे. ते सिवाय बधी - ४४ गाथाओ तथा तेनी टीका परिपूर्ण रूपमां उपलब्ध छे. १५मुं काव्य तेमज तेनी अवतरणिकारूप टीकांश, लखायेल नथी. ते पैकी काव्य तो प्रचलित पाठ परम्परा प्रमाणे लखीने उमेरेल छे.
केटलांक पद्योमा नानकडा पण पाठभेदो जोवा मळे छे, तेनी नोंध आ प्रमाणे : पद्य १०- प्रथम चरण, प्रचलित परम्परामां "नात्यद्भुतं भुवनभूषणभूत ! नाथ !" आम बोलाय छे. ज्यारे अहीं ते चरण "नात्यद्भुतं
Page #2
--------------------------------------------------------------------------
________________
डिसेम्बर २००९
भुवनभूषण ! भूतनाथ !" ए प्रमाणे आलेखायुं छे. 'भूतनाथ'नी टीका 'प्राणिप्रभो !' एम करवामां आवी छे.
पद्य १२ मां प्रथम चरण “यैः शान्तरागरुचिभिः परमाणुभिस्त्वं" ए प्रमाणेनो पाठ प्रचलित छे. आ टीका प्रमाणे ते पाठ "यैः शान्तराग ! रुचिभिः परमाणुभिस्त्वं" एम छे. 'हे शान्तराग !-वीतराग', तथा 'रुचिभिः -दीप्तिमद्भिः' एवी त्यां टीका पण छे.
पद्य २०मां त्रीजुं चरण आ प्रमाणे प्रचलित छ : "तेजः स्फुरन्मणिषु याति यथा महत्त्वं'. परन्तु आ टीकामां ते स्थाने "तेजो महामणिषु याति यथा महत्त्वं" एम पाठ छे. तेनी टीका पण-'महामणिषु-महारत्नेषुइन्द्रनीलादिषु' एवी छे.
पद्य २५, प्रथम चरण "बुद्धस्त्वमेव विबुधार्चितबुद्धिबोधात्" एम प्रचलित छे. ज्यारे अहीं "बद्धस्त्वमेव विबुधार्चित ! बुद्धिबोधात्" एम पाठ जोवा मळे छे. तेनी टीकामां पण 'बुद्धिबोधात् - बुद्ध्या - केवलज्ञानेन सकलतत्त्वपरिच्छेदात्', तथा 'विबुधाचित ! - शक्रादिदेवसंघातपूजित !' एम विवरण छे.
पद्य २७मां चोथा चरणमां "कदाचिद् वीक्षितोऽसि" पाठ छे, अने तेनी टीका पण ते ज पाठ प्रमाणे छे. ज्यारे प्रचलित पाठ 'कदाचिदपीक्षितोऽसि' एम छे, जे बधी दृष्टिए उचित पण छे.
__पद्य ३९मां "वेगावतारतरणातुरयोधभीमे" एम बी चरण प्रसिद्ध छे. अहीं "वेगावतारतरुणातुरयोधभीमे" पाठ छे. तेनी टीकामां पण, 'वेगावतारेण-जवावतरणेन तरुणा-युवानः' एम विवरण छे.
तो ते ज पद्यना चतुर्थ चरणमां "०वनाश्रयिणो लभन्ते" पाठ तो छे ज; पण टीकाकार तेनो पाठभेद आम नोंधे छे : "०समाश्रयिण इति पाठः".
प्रतिलिपि करवा देवा बदल खम्भातना शां.प्रा. जैन ताडपत्र भण्डारना
Page #3
--------------------------------------------------------------------------
________________
डिसेम्बर २००९
कार्यवाहकोनो ऋणस्वीकार करूं छं.
नमो वीतरागाय ॥
भक्तामर - वृत्तिः ॥
वृत्तिं भक्तामरादीनां स्तवानां वच्मि यथोचितम् । संक्षेपान्मुक्तिलाभाय सुखबुद्धिप्रबुद्धये ||१||
३
भक्तामरप्रणतमौलिमणिप्रभाणा-मुद्योतकं दलितपापतमोवितानम् । सम्यक् प्रणम्य जिनपादयुगं युगादा - वालम्बनं भवजले पततां जनानाम् ॥१ ॥ यः संस्तुतः सकलवाड्मयतत्त्वबोधा - दुद्भूतबुद्धिपटुभिः सुरलोकनाथैः । स्तोत्रैर्जगत्त्रितयचित्तहरैरुदारैः स्तोष्ये किलाऽहमपि तं प्रथमं जिनेन्द्रम् ॥२॥ युगलम् ॥
I
I
अहमपि, न केवलमिन्द्रादयः स्तुतवन्तः । स्तोष्ये - स्तवं विधास्ये । किलेत्यात्मनोऽस(श)क्तिमौद्धत्यपरिहारार्थम् । चित्तहरैरुदारैरिति । मानतुङ्गाचार्य कविः । किं स्तोष्ये ? । तं जिनेन्द्रम् | रागादीनां जेतृत्वाज्जिनाः सामान्यकेवलिनः, तेषामिन्द्रः-प्रधानस्तीर्थकरः । तं किम्भूतं ? | प्रथममाद्यमृषभनाथमित्यर्थः । यः किम्भूतः ? । संस्तुतः-सम्यग्-भक्तिबहुमानपुरस्सरम्; भगवदतिसा(शा)यिगुणपरिज्ञानपूर्वकं वा स्तुतो - नुतो - वन्दितः । कैः कर्तृभिः ? । सुरलोकनाथैर्देवनिवासप्रभुभिरिन्द्रैः । कीदृशैः ?। उद्भूतबुद्धिपटुभिः । प्रादुर्भूता या बुद्धिर्मतिस्तया पटवो दक्षा विद्वांसस्तैः । कुत ईदृशैः ? । सकलवाङ्मयतत्त्वबोधात् । वाचा निर्वृत्तं वाड्मयं शास्त्रजातम् । सकलं च तद् वाड्मयं च सकलवाङ्मयं तस्य तत्त्वं परमार्थः, तस्याऽवबोधो ज्ञानं । तस्मात् - शास्त्रावगमात् । कैः कृत्वा संस्तुतः ?, स्तोत्रैः-स्तवनैः । कीदृशैः ?, जगत्त्रितयचित्तहरैः । जगतांभुवनानां त्रितयं त्रयं, तस्य चित्तानि तानि हरन्ति - रञ्जयन्तीति तानि तथोक्तानि । तैर्जगत्त्रये जन्तुमनआवर्जकैः, अत एवोदारैः - उदारार्थैरुद्भटैर्वा । किं कृत्वा स्तोष्ये ?, प्रणम्य - प्रकर्षेण नत्वा । कथं ?, सम्यग् बहुमानयुक्तम्; गुणावबोधसहितं वा । किं तद् ?, जिनपादयुगं - वीतरागचरणयुगलम् । कीदृशं ?, आलम्बनंआश्रयणं । केषां ?, जनानां - लोकानां - प्राणिनामित्यर्थः । किं कुर्वतां ?, पततांअधो गच्छतां-निमज्जतां । क्व ?, भवजले । भवन्ति - उत्पद्यन्ते कर्मायत्ता
Page #4
--------------------------------------------------------------------------
________________
अनुसन्धान-५०
जन्तवो यस्मिन् सं.(स) भवः-संसारः । स एव जलं-संसारोदकं तस्मिन् । कस्मिन् काले जिनपादयुगमालम्बनम् ?; युगादौ - अवसर्पिणीसमयतृतीयारकपर्यन्तकाले । कीदृशम् ?, उद्योतकं-उद्दीपकं-विस्फारकम् । कासां ?, भक्तामरप्रणतेमौलिमणिप्रभाणाम् । भक्ता-भक्तिमन्तो ये अमरा-देवाः, तेषां प्रणतानम्रीकृता एव मौलयः-शिरोमुकुटानि तेषु मणयो-रत्नानि इन्द्रनीलादीनि, तेषां प्रणता-नम्रीकृता एव मौलयः-शिरोमुकुटानि तेषु मणयो-रत्नानि इन्द्रनी लादीनि, तेषां प्रभा-दीप्तयोऽनेकवर्णाः तासां, भगवत्पादयुग्मस्याऽतिदीप्तिमत्त्वात् । तथा, दलितपापतमोवितानम् । दलितं-विध्वस्तः (स्तं) पापमेव-किल्बिषमेव तमोवितानोऽन्धकारविस्तारोऽपकारित्वाद् ये[न] ते(त)त्तथोक्तम् ॥१-२॥ साम्प्रतं 'किले'त्यनेन पदेनाभौ(नौ?)द्धत्यं सूचितमात्मनस्तदेव प्रकटयतिबुद्धया विनापि विबुधार्चितपादपीठ ! स्तोतुं समुद्यतमतिर्विगतत्रपोऽहम् । बालं विहाय जलसंस्थितमिन्दुबिम्ब-मन्यः क इच्छति जनः सहसा ग्रहीतुम् ?
॥३॥ हे विबुधाच्चितपादपीठ ! हे देवपूजितचरणासन ! भक्तिपरत्वात् प्रणतिसमये, देवद्रुमकुसुमैः, स्तोतुं-नवितुं, समुत्पद्यत (समुद्यत) मतिरुद्यमवबुद्धिः, अहं वर्ते । कीदृशः सन् ?, विगतत्रपोऽपगतलज्जः सन् । कथं स्तोतुं समुत्पद्यत (समुद्यत)मतिः?। विना-ऋतेऽपि, कया? बुद्ध्यासेमुख्या (शेमुष्या), बुद्धिरहितो-ऽपीत्यर्थः । यश्च बुद्धिरहितः स्तवे प्रवर्त्तते स निर्लज्जो भवत्येव । अत्राऽर्थे-ऽर्थान्तरन्यासमाह-कोऽन्योऽपरो जनो लोको विवेकी सहसा-झटिति ग्रहीतु-मादातुमिच्छति-वाञ्छति ?, नैव कश्चित् । किं तद् ?, इन्दुबिम्बं-चन्द्रप्रतिमाम् । कीदृशम् ?, जलसंस्थितमुदकाश्रितम् । कि कृत्वा ?, विहाय-त्यक्त्वा । किम्?, बालमज्ञं शिसुं(शुंवा । स एव गृह्णातीत्यर्थः । तथा मां त्यक्त्वा जानानो न कोऽपि भगवद्गुणानां दुर्लेपत्वात् स्तवे न प्रवर्तत इति ॥३॥
कुतो विगतलज्ज इत्याह - वक्तुं गुणान् गुणसमुद्र ! शशाङ्ककान्तान्, कस्ते क्षमः सुरगुरुप्रतिमोऽपि बुद्ध्या, कल्पान्तकालपवनोद्धतनक्रचक्रं, को वा तरीतुमलमम्बुनिधिं भुजाभ्याम्॥४॥
Page #5
--------------------------------------------------------------------------
________________
डिसेम्बर-२००९
कः क्षमः - सक्वो (शक्तः) ?, न कोऽपि । किं कर्तुं ?, वक्तुं - भाषितुम् । कान् ?, गुणान् ज्ञानादीन् । कस्य ? ते-तव । कीदृशोऽपि ? सुरगुरुप्रतिमोऽपि-बृहस्पतितुल्योऽपि । कया ? बुद्ध्या-सेमुख्या (शेमुष्या) । हे गुणसमुद्र ! – गुणरत्नाकर ! । कीदृशान् ? शशाङ्ककान्तान् - चन्द्रवदुज्ज्वलान् । अत्रार्थेऽर्थान्तरन्यासमाह-को वा तरीतुं-प्लोतुं, अलं-समर्थः ?। नैव कश्चित् । कम् ? अम्बुनिधि-समुद्रम् । काभ्याम् ? भुजाभ्यां-बाहुभ्याम् । कीदृशम् ? कल्पान्तकालपवतोद्धतनक्रचक्रम्, कल्पान्तकाले [आ]युक्षयसमये दशितम् ॥४॥ यद्येवं, तर्हि किमर्थं स्तवने प्रवृत्तः ? इत्याहसोऽहं तथापि तव भक्तिवसा (शा)न्मुनीश !
कर्तुं स्तवं विगतशक्तिरपि प्रवृत्तः । प्रीत्याऽऽत्मवीर्यमविचार्य मृगो मृगेन्द्रं
नाभ्येति किं निजशिशोः परिपालनार्थम् ? ॥५॥ यद्यपि वक्तुं गुणान् तव न कोऽपि शक्तः तथापि, सोऽहं विगतशक्तिरपिसामर्थ्यहीनोऽपि । हे मुनीश ! – गणधरादिमुनिस्वामिन् ! । प्रवृत्तः-प्रवृत्तिमान् । किं ? कर्तुं - स्तवं विधातुम् । कस्य ? तव-भवतः । कुतः ? भक्तिवसा(शा)त् – आन्तरभावप्रेरितः सन् । अत्रार्थे अर्थान्तरन्यासमाह- किं नाभ्येति ?-आभिमुख्येन किं न गच्छति ?। कोऽसौ ? मृगो-हरिणः । कम् ? मृगेन्द्रं-सिंहम् । गच्छत्येव । कया ? प्रीत्या-प्रणयेन । किं कृत्वा ? अविचार्य-अपर्यालोच्य । किं तद् ? आत्मवीर्यं-निजबलम् । किमर्थम् ? परिपालनार्थम् । कस्य ? निजशिशोः - आत्मीयबालस्य । यथा मृगो निजबालरक्षणार्थं सिंहाभिमुखं प्रवृत्तः, तथाऽहमपि स्तवं कर्तुं प्रवृत्त इति ॥५॥ नन्वल्पश्रुतस्य स्तवकरणे कथं मुखरता भवति ? इत्याह - अल्पश्रुतं श्रुतवतां परिहासधाम त्वद्भक्तिरेव मुखरीकुरुते बलान्माम् । यत् कोकिलः किल मधौ मधुरं विरौति तच्चारुचूतकलिकानिकरैकहेतुः ॥६॥
त्वद्भक्तिरेव-भवत्सेवैव मां मुख(?) मुखरीकुरुते-वाचालयति । कुतः ? बलात्-हठात् कारण[तः] । कीदृशं माम् ? अल्पश्रुतं-स्वल्पशास्त्रावबोधम् । तथा परिहासधाम-चसूरीस्थानम् । केषाम् ? श्रुतवतां-बहुशास्त्रज्ञानां विदुषाम् ।
Page #6
--------------------------------------------------------------------------
________________
अनुसन्धान-५०
अत्रैवार्थेऽर्थान्तरन्यासमाह यत् कोकिलः-यस्मात् पिको मधौ-चैत्रे मधुरं-कर्णसुखदं चारु । किल प्रसिद्धौ । विरौति-नानाप्रकारं वक्ति । तच्चारुचूतकलिकानिकरैकहेतुः - चारुश्चासौ चूतकलिकानिकरश्च स तथोक्तः, स एवैकहेतुः-अनन्यकारणं स तथा । तस्य विवरणस्य चारुकलिकानिकरैकहेतुः स तथोक्तः । वसन्ते किल कोकिलनानाशब्दना(न)स्य शोभनाऽऽम्रमञ्जरीसंघात एको हेतुर्यथा तथा मम स्तवनकरणे त्वद्भक्तिरेवैको हेतु(:) ॥६॥
ननु स्तवेन किं फलम् ? अत आहत्वत्संस्तवेन भवसन्ततिसन्निबद्धं पापं क्षणात् क्षयमुपैति शरीरभाजाम् । आक्रान्तलोकमलिनीलमशेषमाशु सूर्यांशुभिन्नमिव सा(शा)वरमन्धकारम्
॥७॥ शरीरभाजां-प्राणिनां पापं-पातकं क्षणाद्-अल्पकालेन क्षयं-विनाशं उपैति-गच्छति । कीदृशम् ? भवसन्ततिसन्निबद्धं-जन्मपरम्परोपार्जितम् । केन केन हेतुना करणेन च ? त्वत्संस्तवेन-भवत्संस्तवनेन । उपमामाह-अन्धकारमिवतम इव, यथा तमो विनाशं गच्छति । किम्भूतम् ? सा(शा)वरं-रात्रिसत्कम् । कीदृशम् ? आक्रान्तलोकं-व्याप्तभुवनम्, तथाऽलिनीलं-भृङ्गकृष्णम्, तथाऽशेषंसकलम् । कथम् ? आशु-शीघ्रम् । किम्भूतं सत् ? सूर्यांशुभिन्नं-रविकरविदारितम्
|७||
यतस्तव संस्तवेन क्षणात् क्षयं पापमुपैति, अत आहमत्वेति नाथ ! तव संस्तवनं मयेद-मारभ्यते तनुधियाऽपि तव प्रभावात् । चेतो हरिष्यति सतां नलिनीदलेषु मुक्ताफलद्युतिमुपैति ननूदबिन्दुः ॥८॥
इदं - वक्ष्यमाणं संस्तवनं - संस्तवो मया । कीदृशेनापि ? तनुधियाऽपि-स्तोकबुद्ध्याऽपि आरभ्यते-क्रियते । हे नाथ !- स्वामिन् !। कस्य सम्बन्धि ? तव-भवतः । किं कृत्वा ? मत्वा-ज्ञात्वा । किं तद् ? इति - पूर्वश्लोकभणितम् । कुत आरभ्यते ? तव प्रभावाद्-भवतः सामर्थ्यात्, नाऽऽत्मीया स्तवनकरणशक्ति-रस्ति । तच्च चेतो-मनो हरिष्यति-रञ्जयिष्यति । केषाम् ? सतां-सत्पुरुषाणां सुजनानाम् । अत्र-अत्रार्थेऽर्थान्तरन्यासमाह-ननु-अहो !, उदकबिन्दुः-तोयबिन्दुः मुक्ताफलद्युति-मौक्तिकशोमां उपैति-गच्छति । केषु ?
Page #7
--------------------------------------------------------------------------
________________
डिसेम्बर-२००९
नलिनीदलेषु-पद्मिनी पत्रेषु स्थितः । यथोदकबिन्दुर्विशिष्टाधारवशेन शोभां प्राप्तवान्, तथा मदीयमपि स्तवनं सुजनाधारत्वेन प्रसंशां(शंसां) प्राप्स्यति ॥८॥
न केवलं भवतः स्तवने (स्तवेन ?) सर्वदोषापगमः, कथापि दुरितं हन्ति, एतदाहआस्तां तव स्तवनमस्तसमस्तदोषं त्वत्संकथाऽपि जगतां दुरितानि हन्ति । दूरे सहस्त्रकिरणः कुरुते प्रभैव पद्माकरेषु जलजानि विकासभाञ्जि ॥९॥
आस्तां-तिष्ठतु तव स्तवनं-स्तोत्रम् । कीदृशम् ? अस्तसमस्तदोषंनिराकृति(त) सकलरागादिदोषगणं, त्वत्संकथाऽपि-भवद्वार्ताऽपि जगतांभुवनवर्त्तिप्राणिनां दुरितानि-दुःकृतानि निहन्ति-विनाशयति । अत्रार्थेऽर्थान्तरन्यासमाह -दूरे-विप्रकृष्टे तिष्ठतु । कोऽसौ ? सहस्रकिरणो-भानुः । कुरुते-विदधाति । कोऽसौ ? प्रभैव-दीप्तिरेव । कानि कुरुते ? जलजानिपद्मानि । कीदृशानि ? विकाशभाञ्जि-विकसितानि । केषु ? पद्माकरेषुपद्मखण्डेषु । रविस्थानीयं स्तवनं, प्रभातुल्या संकथेति ॥९॥
यश्च भक्त्या भवन्तं स्तौति स तवैव समो भवतीति दर्शयतिनात्यद्भुतं भुवनभूषण ! भूतनाथ !
भूतैर्गुणैर्भुवि भवन्तमभिष्टवन्तः । तुल्या भवन्ति भवतो ननु तेन किं वा
भूत्याऽऽश्रितं य इह नात्मसमं करोति ? ॥१०॥ तदेतन्नात्यद्भुतं-नाश्चर्यकारि यत् तुल्याः समानाः भवतः-तव भवन्तिजायन्ते । हे भूतनाथ !-प्राणिप्रभो !। क(की)दृशः ? भुवनभूषण !-जगज्जन्तुमण्डन ! किं कुर्वन्तः ? अभिष्टुवन्तः-नुवन्तः । कम् ? भवन्तं-त्वाम् । कस्याम् ? भुवि-पृथव्याम् । कैः ? गुणैर्ज्ञानादिभिः । कीदृशैः ? भूतैः-सद्भूतैः सत्यैः । अर्थान्तरन्यासमाह-ननु-अहो !, किंवा यथा (अथवा) किं प्रयोजनम् ?। केन ? तेन-प्रभुणा, य इह जगति [न]करोति-न विदधाति । कम् ? आश्रितम् । कीदृशम् ? आत्मसमं-आत्मसमानम् । कया ? भूत्या-श्रिया ॥१०॥
अतिशयरूपवत्त्वं भगवतो दर्शयितुमाहदृष्ट्वा भवन्तमनिमेषविलोकनीयं नान्यत्र तोषमुपजा( या )ति जनस्य चक्षुः ।
Page #8
--------------------------------------------------------------------------
________________
८
अनुसन्धान-५०
पीत्वा पयः शशिकरद्युति दुग्धसिन्धोः क्षारं जलं जलनिधेरसितुं क इच्छेत् ?
॥११॥
I
जनस्य-लोकस्य [चक्षुः] - नेत्रं तोषं - तुष्टिं न उपजा(या)ति- लभते । क्व ? अन्यत्र-त्वत्तोऽपरस्मिन् दृष्टे सति । किं कृत्वा ? दृष्ट्वा - अवलोक्य । कम् ? भवन्तं-त्वाम् । कीदृशम् ? अनिषिध ( अनिमेष) विलोकनीयं - निमेषरहितं यथा भवति तथा विलोक्यते यः स तथोक्तः, तम् । अतिरूपत्वाद् भवन्तं पश्यन्तो नेत्रनिमीलनमपि विघ्नकल्पत्वान्न कुर्वन्तीत्यर्थः । अत्रार्थेऽर्थान्तरन्यासमाह- कः-प्राणी इच्छेद्-अभिलषेत् । किं कर्तुम् ? रसितुं - आस्वादयितुम् । किं तत् ? जलं-पानीयम् । किम्भूतम् ? क्षारं - दुष्टास्वादम् । कस्य ? जलनिधेःसमुद्रस्य । किं कृत्वा ? पीत्वा - रसित्वा । किं तत् ? पयो - जलम् । कीदृशम् ? शशर (शशिकर) द्युति - चन्द्ररस्मि (श्मि) निर्मलम् । कस्य ? दुग्धसिन्धोःक्षीरसागरस्य । नैव कश्चिदिच्छेदित्यर्थः ॥ ११॥
I
अहमेवं मन्ये-भवद्देहनि: पत्तये येऽणवो व्याधृ (पृ)तास्ते तावन्त एव । यत्(त) आह
यैः शान्तराग ! रुचिभिः परमाणुभिस्त्वं निर्मापितस्त्रिभुवनैककलामभूत ! । तावन्त एव खलु तेऽप्यणवः पृथिव्यां यत्ते समानमपरं नहि रूपमस्ति ॥ १२ ॥ खलु-निश्चयेन तेऽपि-ते पुनः अणवः - परमाणवः तावन्तः-तत्परिमाणा एव, अन्ये न सन्तीत्यर्थः । यैः परमाणुभिस्त्वं-भवान् निर्मापितो-नि:पादितः । कीदृशैः ? रुचिभिः - दीप्तिमद्भिः । हे शान्तराग ! वीतराग ! । कीदृशो निर्मापितः ? त्रिभुवनैकललामभूतो- जगत्त्रयाद्वितीयतिलक इव भूतशब्द इवार्थे । तावन्त एव । कस्याम् ? पृथिव्यां - भुवि । कथं ज्ञायते ? यद् - यस्माद् नहिनैव अपरं-अन्यद् रूपं - आकृतिः अस्ति - विद्यते । कीदृशम् ? समानं - तुल्यम् । कस्य ? ते तव ।। अनेनापि रूपातिशयत्वं भगवतो दर्शितम् ॥१२॥
साम्प्रतं भगवतो मुखं वर्णयतिवक्त्रं क्व ते सुरनरोरगनेत्रहारि
निःशेषनिर्जितजगत्त्रितयोपमानम् । बिम्बं कलङ्कमलिनं क्व निशाकरस्य
Page #9
--------------------------------------------------------------------------
________________
डिसेम्बर २००९
यद् वासरे भवति पाण्डुपलास ( श ) कल्पम् ॥१३॥ निःशेषं-समस्तं यथा भवति तथा, निःशेषाणि वा निर्जितानि-तिरस्कृतानि जगत्त्रितये वर्तमानानि उपमानानि - उपमा येन तत्तथोक्तम् । भगवन्मुखतुल्यं किञ्चिदपि नास्तीत्यर्थः । चन्द्रबिम्बमुपमानं भविष्यतीति चेत्, आह- बिम्बं - मण्डलं क्व ? - नैतत् । कीदृशम् ? कलङ्कमलिनं-मृगलाञ्छनलाञ्छितं कुशोभमित्यर्थः । कस्य ? निशाकरस्य - चन्द्रस्य यद् - बिम्बं भवति जायते । क्व ? वासरे - दिवसे । कीदृशम् ? पाण्डुपलाशकल्पं पक्वपत्रतुल्यम् । कलङ्कयुक्तत्व-निस्तेजस्त्वाभ्यां न समानं भगवन्मुखं च विपरीतम् ॥१३॥ निरुपमगुणाश्रयत्वाद् भगवान् स्तुत्य [इ]ति दर्शयि (य) तिसम्पूर्णमण्डलशशाङ्ककलाकलाप !
शुभ्रा गुणास्त्रिभुवनं तव लङ्घयन्ति ।
संत्र ( ) तात्रिजगदीश्वर ! नाथमेकं
कस्तां( स्तान्) निवारयति सञ्चरतो यथेष्टम् ? ॥१४॥
हे सम्पूर्णमण्डलशशाङ्ककला[कला]प ! – परिपूर्णबिम्बो यः शशाङ्कःचन्द्रस्तस्य कला तत्कलापो - द्विसप्ततिकलासमूहो यस्य स तथोक्तः, तस्यामन्त्रणं हे सम्पूर्णे त्यादि । एते गुणा - ज्ञानादयः शुभ्रा - धवलास्तव-भवतस्त्रिभुवनंजगत्त्रयं लङ्घयन्ति-अतिक्रामन्ति - जयन्तीत्यर्थः । ये संश्रिता - आश्रितास्त्रिजगदीश्वर ! -हे भुवनत्रय प्रभो ! | कं संश्रिता: ? नाथं - स्वामिनं च । किम्भूतम् ? एकं - अद्वितीयम्। यद्वा त्रिजगदीश्वरा भवनपति - व्यन्तर-ज्यो [ति]ष्क- - वैमानिकेन्द्रास्तेषां नाथं - स्वामिनं त्वां संश्रित्या (ता: ) । अत्रार्थेऽर्थान्तरन्यासमाह-एकरु (क?) क्षष्ट(स्थि ?) तान् गुणान् सञ्चरतो - भ्रमतः । कथम् ? यथेष्टं स्वेच्छया को निवारयति-निषेधयति ? नैव कश्चित् ॥१४॥
-
चित्रं किमत्र यदि ते त्रिदशाङ्गनाभि-नतं मनागपि मनो न विकारमार्गम् । कल्पान्तकालमरुता चलिताचलेन किं मन्दराद्रिशिखरं चलितं कदाचित् ? ॥१५॥
किमत्र चित्रं - किमाश्चर्यमेतस्मिन् यदि यद् न नीतं न गमितम् । किं तत् ? मन:- चित्तम् । कस्य ? ते तव । कं न नीतम् ? विकारमार्ग -
Page #10
--------------------------------------------------------------------------
________________
अनुसन्धान-५०
विकृतिपथम् । कथम् ? मनागपि-स्तोकमपि । काभिः ? त्रिदशाङ्गनाभि:देवकान्ताभिः । अत्रार्थेऽर्थान्तरन्यासमाह-किं का(क)दाचित्-कस्मिंश्चित् काले मन्दरादिशिखरं-मेरुशृङ्ग चलितम् ? नैव कम्पितम् । केन? कल्पान्तकालमरुतायुगक्षयसमयवायुना । कीदृशेन ? चलिताचलेन-कम्पितापरगिरिणा । यादृशं मेरुशृङ्ग तादृशं भगवन्मनः ॥१५॥
प्रकास(श)कत्वादपूर्वदीपत्वं भगवतो वर्णयितुमाहनिर्दूमवर्त्तिरपवर्जिततैलपूरः
कृत्स्नं जगत्त्रयमिदं प्रकटीकरोषि । गम्यो न जातु मरुतां चलिताच[ला]नां
दीपोऽपरस्त्वमसि नाथ ! जगत्प्रकाशः ॥१६॥ हे नाथ ! स्वामिन् ! दीपः-प्रदीपः अपरो-ऽन्योऽपूर्वो असि-भवसि त्वम् । कीदृशः ? जगत्प्रकाशः-त्रिभुवनोद्योतकः । दीपो हि गृहैकदेशे प्रकाशको भवति । यतो न गम्यो-न पराभवनीयः । केषाम् ? मरुतां-वायूनाम् । कीदृशानाम् ? चलिताचलानां-कम्पितगिरीणाम् । कथम् ? जातु-कदाचिद् यथा । प्रकटीकरोषि-प्रकाशा(श)यसि । किं तत् ? इदं-प्रत्यक्षं जगत्त्रयं-भुवनत्रितयम् । किम्भूतम् ? कृत्स्नं-सर्वम् । कीड[श]स्त्वं दीपः ? निर्दूमवर्त्तिः-निर्गतौ धूम-वर्ती यस्य स तथोक्तः ॥१६॥
सूर्यादपि अधिकत्वं दर्शयितुमाहनाऽस्तं कदाचिदुपयासि न राहुगम्यः स्पष्टीकरोषि सहसा युगपज्जगन्ति । नाम्भोधरोदरनिरुद्धमहाप्रभावः सूर्यातिशायिमहिमाऽसि मुनीन्द्र ! लोके ॥१७॥
हे मुनीन्द्र ! – गणधरादिसाधुनाथ ! असि-भवसि त्वम् । कीदृशः? सूर्यातिशायिमहिमा-सूर्यातिशायी-सूरतिरस्कारी महिमा-महत्त्वं यस्य स तथोक्तः । यतो नास्तं-[न] तिरोध(धा)नत्वं कदाचिदुपयासि-उपगच्छसि । सूरो हि सन्ध्यासमये छन्नो भवति, त्वं पुनः सदा प्रकास(श)रूपः । तथा त्वं न राहुगम्यः-तमपराभवनीयो न भवति(सि) । रविश्च ग्रहणकाले तमसा पराभूयते । तथा त्वं सहसा-सन्ततं युगपद्-एककालं जगन्ति-त्रीणि भवनानि अधोमध्यमोर्ध्वरूपाणि स्पष्टीकरोषि-प्रकाशयसि । रविः पुनर्भुवनैकदेशं क्रमेण
Page #11
--------------------------------------------------------------------------
________________
डिसेम्बर-२००९
सततं प्रकाशयति । तथा त्वं नाम्भोधरोदरनिरुद्धमहाप्रभावः-अम्भोधरामेघास्तेषामुदरं-कुक्षिः, तेन तस्मिन् वा निरुद्धो-ऽपनीतो महान्-बृहत् प्रभावःप्रतापो यस्य स तथोक्तः । आदित्यस्त्वेतद्विपरीतो भवति अतः सूर्यातिशायिमहिमा त्वम् ॥१७॥
__ इदानीं भगवतो मुखपद्मस्याऽपूर्वशशाङ्करूपतां स्तवकारो वर्णयतिनित्योदयं दलितमोहमहान्धकारं गम्यं न राहुवदनस्य न वारिदानाम् । विभ्राजते तव मुखाब्जमनल्पकान्ति विद्योतयज्जगदपूर्वशशाङ्कबिम्बम्॥१८॥
हे जिन ! तव मुखाब्जं-मुखकमलं विभ्राजते-विशेषेण विविधं वि(वा) द्योतते । कीदृशम् ? अनल्पकान्ति-गुरुदीप्ति गुरुकमनीयं च । किम्भूतं सद् ? अपूर्वशशाङ्कबिम्बं-अ[न]न्यचन्द्रमण्डलं, यतो नित्योदयं-सर्वदोदितम् । चन्द्रमण्डलं तु रात्र्युदयम् । तथा दलितमोहमहान्धकारं – दलितो-नासि(शि)तो मोह एव-अज्ञानमेव महान्धकारो-गुरुतमो येन तत् तथोक्तम् । चन्द्रबिम्बं तु मोहतमो विनाशयितुं न शक्तं भवति । तथा न गम्यं-न पराभवनीयम् । कस्य ? राहुवदनस्य-तमोमुखस्य । कर्तरि षष्टीयं, 'कृत्यानां कर्त्तरि चे'ति । तथा न वारिदानां-मेघानां गम्यं-पराभवनीयम् । तत्पराभवोत्तीर्णत्वात् । चन्द्रबिम्बं तु राहुमुखस्य मेघानां च गम्यं भवति, भक्षणादावरणाद्वा ॥१८॥
रात्रौ चन्द्रस्य दिने च रवे गवतो मुखचन्द्रे सति निरर्थकत्वं स्तवकारो वर्णयतिकिं शर्वरीषु शशिनाऽह्नि विवस्वता वा युष्मन्मुखेन्दुदलितेषु तमस्सु नाथ ! । निष्पन्नशालिवनशालिनि जीवलोके कार्य कियज्जलधरैर्जलभारननैः ?
॥१९॥ हे नाथ ! – स्वामिन् ऋषभ ! किं शशिना - किं प्रयोजनं चन्द्रेण? कासु ? शर्वरीषु-रात्रिषु । विवस्वता वा - आदित्येन वा किं प्रयोजनं ? क्व? [अह्नि]- दिने । न किञ्चित् । केषु सत्सु ? तमस्सु-ध्वान्तेषु । किम्भूतेषु ? युष्मन्मुखेन्दुदलितेषु-त्वद्वक्त्रचन्द्रविनासि(शि)तेषु । तमोविनाशनं हि चन्द्र-सूर्यमसोः (सूर्य-चन्द्रमसोः) कार्यं, तच्च त्वन्मुखचन्द्रेणैव कृतं, अतो निःप्रयोजनौ । तावदत्रार्थेऽर्थान्तरन्यासमाह-कियत् कार्य-किं प्रयोजनं, न किमपि
Page #12
--------------------------------------------------------------------------
________________
१२
अनुसन्धान- ५०
। कैः ? जलधरैः-मेघैः । कीदृशैः ? जलभारनम्रैः - उदकसंघातनतैः । क्व ? जीवलोके जन्तुनिवासे जगति । कीदृशे ? निष्पन्नशालिवनशालिनिनिष्पन्नानि यानि शालिवनानि-कलमव्रीहिसत्कानि क्षेत्राणि तैः । सा (शा) लतेशोभते यः स तथोक्तः, तस्मिन् । शालिवा (व) नानामुपलक्षणत्वाद् यदा किल निष्पन्नसर्वशस्य सम्पन्नो भवति प्रकारान्तरेण जीवलोकः, किं प्रयोजनं जलनम्रमेघैः, सत्कार्यस्य सिद्धत्वात् । एवं किं प्रयोजनं शशि - सूर्याभ्यामिति
॥१९॥
हरिहरब्रह्मादिदेवेभ्यो भगवतोऽतिशायि ज्ञानं कविर्वर्णयितुमाहज्ञानं यथा त्वयि विभाति कृतावकाशं नैवं तथा हरिहरादिषु नायकेषु । तेजो महामणिषु याति यथा महत्त्वं नैवं तु काचस(श)कले किरणाकुलेऽपि
॥२०॥
I
हे भगवन् ! यथा - येन प्रकारेण त्वयि - भवति यथावस्थितार्थपरिच्छेदको बोधो विभाति-विशेषेण शोभते, गतरागत्वाद् भगवतः, नैवं-नैव तथा-तेन प्रकारेण विभाति ज्ञानम् । केषु ? हरिहरादिषु नायकेषु - विष्णु - शङ्कर-ब्रह्मादिषु प्रभुषु, सरागत्वान्मोहोपेतत्वाच्च । ज्ञानं च कीदृशं ? कृतावकाशं विहितप्रकाशं धर्माधर्मादेः । न च सरागस्य मूढस्य चाज्ञानं विहितप्रकाशं भवति । अत्रार्थेऽर्थान्तरन्यासमाह-तेजो-धाम यथा येन प्रकारेण महत्त्वंमहिमानं बृहत्त्वं याति - प्राप्नोति । कासु?(केषु?) महामणिषु - महारत्नेषु इन्द्रनीलादिषु, तथा काचस (श)कलेषु-काचखण्डेषु पुनर्नैवं - नैवं (व) तेजो - महत्त्वं याति । कीदृशेऽपि ? किरणाकुलेऽपि - रश्मिव्याप्तेऽपि । काचस (श) कलतुल्या हरिहरादयः, कथं तथा ज्ञानं भवेदिति ॥२०॥
I
वक्रोक्त्या भगवतो मनोहारित्वं हरिहरादिभ्यः स्तवकारो वर्णयति
मन्ये वरं हरिहरादय एव दृष्टा
दृष्टेषु येषु हृदयं त्वयि तोषमेति ।
किं वीक्ष (क्षि) तेन भवता भुवि येन नान्यः
कश्चिन्मनो हरति नाथ ! भवान्तरेऽपि ॥२१॥
अहमेवं मन्ये-जाने हे नाथ ! स्वामिन् ! वरं प्रधानं हरिहरादयो
Page #13
--------------------------------------------------------------------------
________________
डिसेम्बर-२००९
विष्णुशङ्करादय एव दृष्टा-अवलोकिताः, किं भवता दृष्टेन ?। यतो येषु हर्यादिषु दृष्टेषु हृदयं-मनः तोषं-प्रीति उपैति-गच्छति । क्व ? त्वयि-भवति, त्वय्येव प्रीतिं करोति, नान्यत्रेत्यर्थः । किं प्रयोजनं वीक्ष(क्षि)तेन-दृष्टेन ?। केन? भवता-त्वया । कस्याम् ? भुवि-पृथिव्याम् । येन भवद्वीक्षणेन-करणेन हेतुना वा नान्यो-ना[परो] मतो(नो)-मानसं हरति-रञ्जयति । क्व ? भवान्तरेऽपि । आस्तामिह जनम्नि(न्मनि), जन्मान्तरेऽपि । अनेन भगवति दृष्टे सति अन्यो न चित्ते विशति तथाविधगुणाभावादिति दर्शितम् ॥२१॥
साम्प्रतं सर्वजननीपुत्रातिशायित्वं भगवतो वर्णयतिस्त्रीणां शतानि शतशो जनयन्ति पुत्रान्
नान्या सुतं त्वदुपमं जननी प्रसूता । सर्वा दिशो दधति भानि सहस्त्ररस्मि(शिम)
प्राच्येव दिग् जनयति स्फुरदंशुजालम् ॥२२॥ जनयन्ति-प्रसवन्ति । कानि ? स्त्रीणां शतानि-बढ्यो योषितः । कान् ? पुत्रान्-सूनून् । कियतः ? शतशः-अनेकशतानि । केवलं त्वदुपमंभवत्समानं सुतं-पुत्रं न प्रसूता-न जनितवती । काऽसौ ? जननी-माता । किम्भूता? अन्या-मरुदेव्यपरा । अत्रार्थेऽर्थान्तरन्यासमाह-सर्वाः-सकला दिशा:आशा दधति-बिभ्रति । कानि ? भानि-नक्षत्राणि । सहस्ररस्मि(श्मि)-आदित्यं पुनः प्राच्येव-पूर्वैव दिग्-आसा(शा) जनयति-प्रसवति, नाऽन्या दिक् । कीदृशम् ? स्फुरदंशुजालं-प्रसरत्किरणनिकरम् । यादृशो रविस्तादृशो भगवान्, यादृशी प्राची तादृशी मरुदेवी भगवतीति ॥२२॥
इदानीं भगवतः परमपुरुषत्वं मृत्युज(अ)यत्वं मुक्तिमार्गत्वं च स्तवकारो वर्णयतित्वामामनन्ति मुनयः परमं पुमांस
मादित्यवर्णममलं तमसः पु(प)रस्तात् । त्वामेव सम्यगुपलभ्य जयं[ति] मृत्यु
नान्यः शिवः शिवपदस्य मुनीन्द्र ! पन्थाः ॥२३॥
१. अत्र टीका त्रुटिता ।
Page #14
--------------------------------------------------------------------------
________________
१४
अनुसन्धान-५०
मुनयो-जगतस्त्रिकालावस्थावि(वे)दिनस्त्वां-भवन्तं आमनन्तिप्रतिपादयन्ति-अभ्यस्यन्ति वा । किम्भूतम् ? पुमांसं-पुरुषम् । कीदृशम् ? परमं-प्रकृष्टम् । तथाऽऽदित्यवर्ण(ग)रवो?---- । [उ]पलभ्य-ज्ञात्वा प्राप्य वा मुनयोर्ज(ज)यन्ति-अभिभवन्ति । कम् ? मृत्यु-मरणम्, मरणभाजो न भवन्ति, मोक्षगमनात् । कथमुपलभ्य ? सम्यग्-ज्ञानादिपूर्वकं च । तथा हे मुनीन्द्र ! - गणधरादिसाधुनाथ ! नान्यो-नापरोऽस्ति । कोऽसौ ? पन्था-मार्गः । कस्य ? शिवपदस्य-मुक्तिस्थानस्य । कीदृशः ? शिव:-क्षेमो-निरपायमि(इ)त्यर्थः । त्वां विहाय-त्वत्सेवया-त्वद्वचनानुष्ठानेन वा मोक्षावाप्तेः, इत्यनेन परदर्शनानि निराकृतानि द्रष्टव्यानि, तेषां मोहान्धत्वेनान्यथा वचोधात् (?) ॥२३॥
अधुना एकस्यापि भगवतो अनेकत्वं गुणद्वारकं स्तवकार आहत्वामव्ययं विभुमचिन्त्यमसङ्ख्यमाद्यं
ब्रह्माणमीश्वरमनन्तमनङ्गकेतुम् । योगीश्वरं विदितयोगमनेकमेकं
ज्ञानः(न)श्व(स्व)रूपममलं प्रवदन्ति सन्तः ॥२४॥ हे न्ना(ना)थ ! सन्तो-विद्वांसस्त्वां-भवन्तं प्रवदन्ति-प्रतिपादयन्ति । किम्भूतम् ? ब्रह्माणं-पद्मयोनि, ज्ञानसम्पन्नत्वात् । तथेश्वरं-महेश्वरं, अणिमाद्यैश्वर्ययुक्तत्वात् । तथाऽनन्तं-वासुदेवं, अलब्धपरत्वात् । कीदृशम् ? अनन्त(ङ्ग)केतुं-कामनाशकम् । तथाऽव्ययं-अक्षयम् । तथा विभुं-व्यापकं, केवलालोकेन व्याप्तचतुर्दशरज्ज(ज्जु)प्रमाणलोकालोकत्वात् । तथाऽचिन्त्यं, भगवत्स्वरूपस्य चिन्तय(यि)तुमशक्यत्वात् । तथाऽऽद्यं, धर्मस्याऽऽदौ तत एव प्रवृत्तेः । तथाऽसङ्ख्यं, न विद्यते ज्ञानादेः सङ्ख्याऽस्येत्यसङ्ख्यम्, एतावत्(द्) ज्ञानं सुखं दर्शनं वा भग[व]तः परिच्छेत्तुमशक्यत्वात् । तथा योगीश्वरं-ध्यानमार्गप्रविष्टनरनायकम् । यतो विदितयोगं-ज्ञान(त)धर्मध्यानादिव्यापारम् । तथाऽनेकं, उक्तक्रमेणाऽनेकरूपत्वात् । तथैकं, स्वरूपेणैकरूपत्वात् । विरोधश्चात्रैवमुद्भावनीयो यद्यनेकं कथ[मेक]मनेकत्वात् । [यद्येकं कथमनेकमेकत्वात् ।] नैक[त्वाऽनेक]त्वे हि परस्परविरुद्ध । विरोधश्च पर(रि)हृत एव । तथा ज्ञानस्वरूपं-ज्ञानमयं अस्त्येव, कर्मक्षयेण शरीराभावात् । तथाऽमलं-निर्मलं, रागादिमलरहितत्वात् ॥२४॥
Page #15
--------------------------------------------------------------------------
________________
डिसेम्बर-२००९
इदानीं पुरुषचतुष्टयरूपत्वं तद्गुणयोगेन भगवतो दर्शयितुमाहबुद्धस्त्वमेव विबुद्धा( था )र्चित ! बुद्धिबोधात्
___ त्वं शङ्करोऽषि( सि) भुवनत्रयशङ्करत्वात् । धाताऽसि धीर ! शिवमार्गविधेर्विधानाद्
___व्यक्तं त्वमेव भगवन् ! पुरुषोत्तमोऽसि ॥२५॥ हे भगवन् !-ऐश्वर्यादिगुणयुक्त ! त्वमेवाऽसि । कोऽसौ ? बुद्धो देवताविशेषः, बुद्ध्यते स्म तत्त्वमित्यन्वर्थत्वात् । कुतः ? बुद्धिबोधाद्-बुद्ध्याकेवलज्ञानेन सकलतत्त्वपरिच्छेदात् । कीदृश !? विबुधार्चित ! - स(श)क्रादि देवसंघातपूजित ! । तथा त्वं-भवान् शङ्करोऽसि-शिवो भवसि । कस्माद् ? भुवनत्रयशङ्करत्वाद्-जगत्त्रयसुखकारित्वात् । तथा हे धीर !-ज्ञानराजिन् ! धाताश्रेष्ठोऽसि-भवसि त्वम् । कुतः ? शिवमार्गविधेविधानाद्-मोक्षपथसृष्टेः करणात् । तथा त्वमेवाऽसि-भवसि । कीदृशः ? पुरुषोत्तमः-पुरुषाणां मध्ये उत्तमःउत्कृष्टः पुरुषोत्तमः सर्वनरप्रधान इत्यर्थः, अन्यत्र विष्णुः । कथम् ? व्यक्तंस्पष्टम् । पूर्वोक्तगुणैर्देवचतुष्टयमयत्वं दर्शितम् ॥२५॥
इदानीमनेकगुणैः कृत्वा भव(भगव)तोऽतिशायित्वख्यापनाय पुनः पुनर्नमस्कारमाह कविःतुभ्यं नमस्त्रिभुवनातिहराय नाथ ! तुभ्यं नमः क्षितितलामलभूषणाय । तुभ्यं नमस्त्रिजगतः परमेश्वराय तुभ्यं नमो जिन ! भवोदधिशोषणाय ॥२६॥
नमो-नमस्कारोऽस्तु । कस्मै ? तुभ्यं भवते । किम्भूताय ? त्रिभुवनार्तिहराय-त्रिजगज्जन्तुपीडानाशकाय हे नाथ ! - स्वामिन् !। तथा तुभ्यं नमोभवते नमस्कारो भवतु । कीदृशाय ? क्षितितलामलभूषणाय-भूतलनिर्मलाभरणाय । तथा तुभ्यं नमः पूर्ववत् । कीदृशाय ? परमेश्वराय-प्रधानप्रभाव(भवे) । कस्य ? त्रिजगतः-त्रिभुवनस्थजन्तूनां रक्षणादिसमर्थत्वात् । तथा तुभ्यं नमः पूर्ववत् । हे जिन ! - रागादिजेत: !। कीदृशाय ? भवोदधिशोषणाय-संसारसमुद्र[नि] शनाय, आत्मनोऽन्येषां च ॥२६॥
साम्प्रतं निःशेषगुणाश्रितत्वं दोषनिराकृतत्वं च भगवतो दर्शयितुमाह कविः
को विस्मयोऽत्र यदि नाम गुणैरशेषै
Page #16
--------------------------------------------------------------------------
________________
१६
अनुसन्धान-५०
स्त्वं शंस्त्रि (संश्रि) तो निरवकास ( श ) तया मुनीश !।
दोषैरुपात्तविविधाश्रयजातगर्वैः
स्वप्नान्तरेऽपि न कदाचिद्वी (दपी) क्षितोऽसि ॥२७॥
हे मुनीश ! - गणधरादिसाधुनाथ ! को विस्मयोऽत्र ? - किमत्राश्चर्यम् ? | यदि त्वं-भगवान् संश्रितः - संस (से) वितो नाम - अहो ! व्यक्तं वा । कै: ? गुणैरतिशायिज्ञानादिभिः । किम्भूतैः ? अशेषैः सर्वैर्न कियद्भिः । कया ? निरवकाशतया-निर्विषयतया, तथाविधोऽन्यो विषयो नास्ति यः समग्रगुणानामाधारः । तथा हे मुनीश ! न कदाचिद् - न कस्मिंश्चित् काले वीक्ष(क्षि)तोऽसि - अवलोकितोऽसि । क्व ? स्वप्नान्तरेऽपि स्वप्नमध्येऽपि, आस्तां जागरमाणैः । कैः ? दोषैः । कीदृशैः ? उपात्तविविधाश्रयजातगर्वैः - प्राप्तनानाप्रकारा - धारोत्पन्नदपैः ॥ इदानीं षड्भिः श्लोकैर्भगवतो विभूतिं वर्णयितुमाह स्तवकार:उच्चैरशोकतरुसंश्रितमुन्मयूख - माभाति रूपममलं भवतो नितान्तम् । स्पष्टोल्लसत्किरणमस्ततमोवितानं बिम्बं रवेरिव पयोधरपार्श्ववर्त्ति ॥२८॥ सिंहासने मणिमयूखशिखाविचित्रे विभ्राजते तव वपुः कनकावदातम् । बिम्ब वियद्विलसदंशुलतावितानं तुङ्गो दयाद्रि शिरसीव
सहस्त्ररस्मेः(श्मेः) ॥२९॥ कुन्दावदातचलचामरचारुशोभं विभ्राजते तव वपुः कलधौतकान्तम् । उद्यच्छशाङ्कशुचिनिर्झरवारिधार - मुच्चैस्तटं सुरगिरेरिव शातकौम्भम् ॥३०॥ छत्रत्रयं तव विभाति शशाङ्ककान्त - मुच्चैः स्थितं स्थगितभानुकरप्रतापम् । मुक्ताफलप्रकरजालविवृद्धशोभं प्रख्यापय: (य) त् त्रिजगतः परमेश्वरत्वम् ॥३१॥
उन्निद्र हेमनवपङ्कजपुञ्जकान्ति- पर्युल्लसन्नखमयूखशिखाभिरामौ । पादौ पदानि तव यत्र जिनेन्द्र ! धत्तः पद्मानि तत्र विबुधाः परिकल्पयन्ति ॥३२॥ इत्थं यथा तव विभूतिरभूज्जिनेन्द्र ! धर्मोपदेशनविधौ न तथा परस्य । यादृग्( क्)प्रभा दिनकृतः प्रहतान्धकारा तादृक्कुतो ग्रहगणस्य विकासिनोऽपि
॥३३॥
Page #17
--------------------------------------------------------------------------
________________
डिसेम्बर-२००९
१७
हे जिनेन्द्र ! - सामान्यकेवलिनाथ ! यथा-येन प्रकारेण तव-भवतो विभूति:-ऐश्वर्यमभूद्-बभूव । कथम् ? इत्थं-अनेन पूर्वप्रकारेण । कस्मिन् ? धर्मोपदेशनविधौ-ज्ञानोत्पत्तिसमननन्तरचतुर्विधधर्मकथनकाले । तथा – तेन प्रकारेण नापरस्य-नान्यस्य बुद्धादेः । अत्रार्थेऽर्थान्तरन्यासमाह-यादृग्-यादृशी प्रभादीप्तिर्दिनकृतो-रवेर्भवति । कीदृशी ? प्रहतान्धकारा-नासि(शि)ततमाः तादृक्तादृशी । कुतो भवति ? ग्रहगणस्य-शुक्रादिवृन्दस्य । कीदृशः ? विकासिनोऽपिप्रकास(श)वतोऽपि । सूर्यतुल्यो भगवान्, शेषग्रहतुल्या बुद्धादयो देवाः ॥३३॥ तामेव दर्शयति
भवतः-ते रूपं-मूर्तिवि(वि) भाति-शोभते । कथम् ? नितान्तंअतिशयेन। कीदृशम् ? अमलं-निर्दोषम् । तथोन्मयूखं-उद्गतकिरणजालं, तथोच्चैरशोकतरुसंश्रितं-उच्चतरु(र)कंकेक्लिवृक्षासन्नवतिनम् । कीदृशं ? स्पष्टोल्लसकिरणं प्रसरद्-व्यक्तरश्मिजालं, अत एवाऽस्ततमोवितानंनिराकृतान्धकारसंघातं । तथा पयोधर-पार्श्ववर्ति-मेघनिकटावस्थितम् ॥२८॥
तथा तव-भवतो वपुः-शरीरं विभ्राजते-विशेषेण शोभते । कीदृशं ? कनकावदातं-स्वर्णवर्णम् । क्व स्थितं ? सिंहासने-हरियुक्तभद्रपीठे । कीदृशे ? मणिमयूखशिखाविचित्रे-रत्नानाना(रत्नानां) किरणज्वालाविविधचित्रे । किमिव शोभते ? बिम्बमिव-मण्डलमिव । कस्य ? सहस्ररस्मे(श्मे):-आदित्यस्य । क्व स्थितम् ? तुङ्गोदयादिशिरसि-उच्चोदयाचलमस्तके । कीदृशम् ? वियद्विलसदंशु-लतावितानं-आकास(श)प्रसरत्-किरणवि(व)ल्लिसंघातम् ॥२९॥
____ तव वपुः-भवतः शरीरं विभ्राजते-विविधं राजते । कीदृशं ? कुन्दावदात्तं(त)चलचामरचारुशोभं-कुन्दकुसुमनिर्मलं(ल) चञ्चलव्यजनसो(शो) भनश्रीकम् । तथा कलधौतकान्तं-सुवर्णकमनीयम् । किमिवाभाति ? तद(ट)मिववपु इव (?) । कीदृशं ? उच्चैः-उच्चम् । कस्य ? सुरगिरेः-मेरोः । तथा शातकौम्भं - सुवर्णमयम् । तथा उद्यच्छशाङ्कशुचिनिर्झरवारिधार-उद्यच्छशाङ्कवद्उद्गच्छच्चन्द्रस्येव शुचयो-निर्मला वारिधारा-जलराजयो यत्र तत् तथोक्तम् । चामरस्य साम्यं दर्शितम् ॥३०॥
तथा छत्रत्रयं-आतपत्रत्रयी तव-भवतो विभाति-विविधं शोभते । कीदृशं? शशाङ्ककान्तं-चन्द्रनिर्मलम् । तथोच्चैः स्थितं-उपरिव्यवस्थितम् । तथा
Page #18
--------------------------------------------------------------------------
________________
अनुसन्धान-५०
स्थगितभानुकरप्रतापं-आच्छादितरविकिरणप्रभावं । तथा मुक्ताफलप्रकरजालविवृद्धशोभं-मुक्ताफलप्रकरजालेन मौक्तिकविसरस्तबकेन विशेषेण वृद्धा-वृद्धिं गता शोभा-श्रीर्यस्य तत् तथोक्तम् । किं कुर्वन्(त्) ? प्रख्यापयत्-प्रकटयत्, त्रिजगत:त्रिभुवनजन्तूनां परमेश्वरत्वं-प्रकृष्टप्रभुत्वं, छत्रत्रयं हि त्रिभुवनप्रभुत्वलक्षणम् ॥३१॥
हे जिनेन्द्र !-तीर्थकरदेव । तत्र-प्रदेशे विबुधा-देवाः पद्मानिकाञ्चनकमलानि परिकल्पयन्ति-रचयन्ति, यत्र-प्रदेशे तव पादौ-चरणौ पदानिन्यासान् धत्तः-कुरुतः । कीदृशौ ? उन्निद्रहेमनवपङ्कजपुञ्जकान्तिपर्युल्लसन्नखमयूरवशिखाभिरामौ-उन्निद्रहेमनवपङ्कजपुञ्जस्येव विकसितसौवर्ण(?) कृतिन् (?) पद्मस्येव कान्तिर्यासां तास्तथोक्ताः, ताश्च ताः पर्युल्लसन्नखमयूखशिखाश्चप्रसरन्नखकिरणज्वालाश्च ताः, ताभिरभिरामौ-अभिरमणीयौ अभू(?) तौ तथोक्तौ ॥३२॥ अर्थापेक्षयैकं कुलकम् । यद्वा भिन्नक्रिया - भिन्ना एवैते श्लोकाः ॥
जिनाश्रितानां करिभयाभावमाहात्म्यसूचनेन कवि:श्च्योतन्मदाविलविलोलकपोलमूल-मत्तभ्रमभ्रमरनादविवृद्धकोपम् । ऐरावताभमिभमुद्धतमापतन्तं दृष्ट्वा भयं भवति नो भवदाश्रितानाम् ॥३४॥
___ नो-न भवति-उत्प]द्यते । किं तद् ? भयं-त्रासः । केषां ? भवदाश्रितानां-युष्मत्सेवाप्राप्तानाम् । किं कृत्वा ? दृष्ट्वा-ऽवलोक्य । कम् ? इभं-करिणम् । किं कुर्वन्तं ? आपतन्तं-आगच्छन्तम् । कीदृशं ? उद्धतंदो द्धरम् । तथा ऐरावताभं-इन्द्र करिसमानम् । कथम्भूतं ? श्च्योतन्मदाविलविलोल-कपोलमूलमत्तभ्रमभ्रमरनादविवृद्धकोपं-त्र्योतन्मदेनक्षरद्दानजलेन आविलं-स्या(श्या)मलं यत् कपोलमूलं-गल्लप्रथमभागः, तस्मिन् मत्तभ्रमभ्रमराः क्षरच्चलभृङ्गाः, तेषां नादः-शब्दः, तेन विवृद्धो-वृद्धि गतः कोपः-क्रोधो यस्य स यथोक्तस्तम् ॥३४॥
भवतः पादाश्रयणस्य फलमाह स्तवकारःमत्तेभकुम्भगलदुज्ज्वलशि( शो )णिताक्त
__मुक्ताफलप्रकरभूषितभूमिभागः । बद्धः(द्ध)क्रमः क्रमगतं हरिणाधिपोऽपि
नाक्रामति क्रमयुगाचलसंश्रितं ते ॥३५॥
Page #19
--------------------------------------------------------------------------
________________
डिसेम्बर-२००९
___ हरिणाधिपोऽपि-सिंहोऽपि, आस्तामन्यः कर्यादिः । नाक्रामतिनाश्लिष्यति । कं ? क्रमयुगाचलं-पादपद्मद्वयं गिरिमाश्रितं-आरूढं तत्सम्बद्धम् । कस्य ? ते-तव । कीदृशं ? क्रमगतं-फालाविषयम् । कीदृशः ? बद्धक्रमःरचितफालः । तथा मत्तेभकुम्भगलदुज्वलशोणिताक्तमुक्ताफलप्रकरभूषितभूमिभागःमत्तेभस्य-क्षीबकरिणः कुम्भ:-शिरःस्थलं, तस्माद् गलत्-क्षरद् उज्वलं-निर्मलमच्छं रक्तं-रुधिरं, तेनाक्तानि-अवलिप्तानि यानि मुक्ताफलानि-मौक्तिकानि, तेषां प्रकर:संघातः, तेन भूषितो-ऽलङ्कृतो भूमिभागो-भूप्रदेशो येन स तथोक्तः । अनेन विशेषणेनाऽस्याऽतिशूरत्वादिगुणाः प्रतिपादिताः ॥३५॥
साम्प्रतं प्रचण्डाग्निदर्पहरत्वेन भगवना(न्ना)म्नो जलरूप[त्व]माहकल्पान्तकालपवनोद्धतवह्निकल्पं
दावानलं ज्वलितमुज्वलमुत्फु(त्स्फु)लिङ्गम् । विश्वं जिघत्सुमिव सन्मुखमापतन्तं
त्वं ना (त्वन्ना)मकीर्तनजलं स(श )मयत्यशेषम् ॥३६॥ हे जिन ! त्वन्नामकीर्तनजलं-भवदभिधानोच्चारणोदकं स(श)मयतिनिवर्तयति । कं? दावानलं-दावाग्निम् । कीदृशं ? कल्पान्तकालपवनोद्धतवह्नि कल्पं-ज(ल)यकालवातोद्भटाग्निसदृशम् । तथाऽशेषं-समस्तम् । तथा ज्वलितंप्रदीप्तं । तथोज्वलं-उद्दीप्तम् । तथोत्स्फुलिङ्ग-उद्गताग्निकणम् । किं कुर्वन्तं ? आपतन्तं-आगच्छन्तम् । कथं ? सन्मुखं-अभिमुखम् । किं कुर्वन्तमिव ? जिघत्सन्त(जिघत्सु)मिव-भक्षितुमिव । किं तत् ? विश्वं-जगत् । अनेन च विशेषणवृन्देणाऽतिप्रचण्डत्वेन केनाप्यप्रतिसंहार्यत्वं अग्नेर्दर्शयति ॥३६॥
___ अधुना क्रोधोद्भटादिगुणस्य सर्पस्य क्रमयुगो (गा)क्रमणेन भगवंना(वन्ना)-म्नो नागदमनीत्वमाह स्तवकार:
रक्तेक्षणं समदकोकिलकण्ठनीलं क्रोधोद्धतं फणिनमुत्फणमापतन्तम् । ना(आ)क्रामति क्रमयुगेन निरस्तस( श)ङ्कः त्वन्नामनागदमनी हृदि यस्य पुंसः ॥३७॥ स नर आक्रामति-आप्नोति-उपमर्दयति । केन ? क्रमयुगेन-पादद्वयेन ।
Page #20
--------------------------------------------------------------------------
________________
अनुसन्धान-५०
कीदृशः सन् ? निरस्तशङ्को-ऽपगतखादनसन्देहः । कमाक्रामति ? फणिनंनागम् । कीदृशं? रक्तेक्षणं-अरुणनेत्रं, तथा समदकोकिलकण्ठनीलं-मत्तपिकगलकृष्णम् । तथा क्रोधोद्धतं-कोपोद्भटं, तथोत्फणं-उद्गतफणाभोगं, तथाऽऽपतन्तंआगच्छन्तम् । यस्य पुंसः पुरुषस्य हृदि-चित्ते वर्तते । कोऽसौ ? त्वन्नामनागदमनी-भवदभिधानसर्पदमनौषधीविशेषः ॥३७॥
___ इदानीं भगवन्नाम्न एवोच्चारणस्य शक्रसैन्यभेदकत्वमाह कविःवल्गत्तुरङ्गगजगर्जितभीमनाद-माजौ बलं बलवतामपि भूपतीनाम् । उद्यदिवाकरमयूखशिखापविद्धं त्वत्कीर्तनात् तम इवाशु भिदामुपैति ॥३८॥
___ भूपतीनां-नृपाणां बलं-सैन्यं चतुरङ्गं भिदां-भेदमुपैति-गच्छति । कस्मात् ? त्वन्नामकीर्तनाद्-भवदभिधानोच्चारणात् । किमिव ? तम इवअन्धकारमिव । कीदृशं सद् ? उद्यद्दिवाकर [मयूख] शिखापविद्धंउद्गच्छद्रविकिरणपरम्पराहतं । कीदृशानां भूपतीनाम् ? बलवतां-शक्तिमतामपि । कीदृशं बलं ? वल्गत्तुरङ्ग-गजगर्जितभीमनादं-वल्गत्तुरङ्गाश्च-इतस्ततश्चलदश्वाश्च गजाश्च-करिणश्च ते तथोक्ताः, तेषां गर्जितं, तदेव भीमो-भयकारको नादः-शब्दो यत्र तत् तथोक्तम् । क्व ? आजौ-सङ्ग्रामे ॥३८॥
इदानीं भगवत्पादसेविनां सङ्ग्रामे जयमाह स्तुतिकार:कुन्ताग्रभिन्नगजशोणित[ वारि वाह-वेगावतारतरुणातुरयोधभीमे । युद्धे जयं विजितदुर्जयजेयपक्षाः त्वत्पादपङ्कजवनाश्रयिणो लभन्ते ॥३९॥
युद्धे-रणे जयं-शत्रुपराभवं लभन्ते-प्राप्नुवन्ति । के ? त्वत्पादपङ्कजवनायिणो-भवच्चरणपद्मखण्डसेविनो नराः, भवच्चरणपद्मसम्यक्सेविनो वा । समाश्रयिण इति पाठः । कीदृशाः सन्तः ? विजितदुर्जयजेयपक्षाः-पराभूतदुःखपराभवनीयशत्रुपक्षाः । कीदृशे युद्धे ? कुन्ताग्रभिन्नगजशोणितवारिवाहवेगावतार तरुणातुरयोधभीमे कुन्ताग्रेण भिन्ना-विदारिता ये गजा:-करिणस्तेषां यच्छोणितवारि-रक्तजलं तस्य वाहः-प्रवाहस्तस्मिन् वेगावतारेण-जवावतरणेन तरुणा-युवान आतुरा-भीता ये योधाः-सुभटास्तैीमे-भयकारके । अनेनात्यन्तभयकारणत्वं युद्धस्य दर्शितम् ॥३९॥
Page #21
--------------------------------------------------------------------------
________________
डिसेम्बर-२००९
इदानीं समुद्रप्रतिष्ठानां यानपात्रारूढानां भगवच्चिन्तनान्मज्जनभयं न भवतीति दर्शयितुमाह कविः
अम्भोनिधौ क्षुभितभीषणनक्रचक्र
___पाठीनपीठभयदोल्बणवाडवाग्नौ । रङ्गतरङ्गशि[ख]रस्थितमानपात्रा
स्त्रासं विहाय भवतः स्मरणाद् व्रजन्ति ॥४०॥ नरा व्रजन्ति-गच्छन्ति-समुद्रमुल्लङ्गयन्तीत्यर्थः । किं कृत्वा ? विहायत्यक्त्वा । कं ? त्रासं-भयं मज्जनादेः । कुतो हेतोः ? स्मरणात्-चिन्तनात् । कस्य ? भवतः-तव । क्व ? अम्भोनिधौ-समुद्रे । कीदृशे ? क्षुभितभीषणनक्रचक्रपाठीनपीठभयदोल्बणवाडवाग्नौ-क्षुभिताश्चलिता भीषणा-भयानका ये नक्रचक्रपाठीनपीठाः-जीवविशेषाः, तैर्भयं-भीतिं ददाति स तथोक्तः, तथोल्बण-उद्भटो वाडवाग्निर्वरदावानलो यस्मिन् स तथोक्तः, पश्चात् पदद्वयस्य कर्मधारयः समासः, तस्मिन् । कीदृशाः सन्तः ? रङ्गत्तरङ्गशिखरस्थितयानपात्रा:-रङ्गन्त-श्चलन्तो ये तरङ्गाः-कल्लोलास्तेषां शिखरं-अग्रं तस्मिन् स्थितं यानपात्रं-प्रवहणं येषां ते तथोक्ताः, ईदृशा अपि ॥४०॥
इदानीं भगवतः पादपद्मरजःपीयूषशरीरावगुण्डनस्य नराणां फलं दर्शयति स्तवकारःउद्भतभीषणजलोदरभारभुग्नाः
सो(शो )च्यां दशामुपगताः श्च्युतजीविताशाः । त्वत्पादपङ्कजरजोऽमृतदिग्धदेहा
मा भवन्ति मकरध्वजतुल्यरूपाः ॥४१॥ मा-मनुष्या भवन्ति-जायन्ते । कीदृशाः ? मकरध्वजतुल्यरूपा:कामसमानाकाराः । कथम्भूताः सन्तः ? त्वत्पादपङ्कजरजोऽमृतदिग्धदेहाः - भवच्चरणपरागपीयूषम्रक्षितस(श)रीराः । पूर्व कीदृशाः सन्तः ? उपगताःप्राप्ताः । कां ? दशां-अवस्थाम् । कीदृशीं ? शोच्यां-शोचनीयां मरणयोग्याम् । किम्भूताः ? श्च्युतजीविताशा:-त्यक्तजीवनवाञ्छाः । तथोद्भूतभीषणजलोदरभारभुग्ना-उत्पन्नभयङ्करोदरव्याधिविशेषप्राग्भारकुटिलीभूताः ॥४१॥
Page #22
--------------------------------------------------------------------------
________________
अनुसन्धान-५०
अधुना स्तवकारो भगवन्नाममन्त्रस्मरणस्य बन्धनभयापहारफलमाहआपादकण्ठमुरुशृङ्खलवेष्टिताङ्गा गाढं बृहन्निगडकोटिनिघृष्टजङ्घाः । त्वन्नाममन्त्रमनिशं मनुजाः स्मरन्तः सद्यः स्वयं विगतबन्धभया भवन्ति ॥४२॥
मनुजा-मानवाः स्वयं-आत्मन एव विगतबन्धभया-अपगतबन्धनत्रासा भवन्ति-सन्ति । कथं ? सद्य:-शीघ्रतरम् । किं कुर्वन्तः-स्मरन्तः चिन्तयन्तः । कं? त्वन्नाममन्त्रं-भवदभिधानविद्याम् । कथं ? अनिसं(शं)-अनवरतम् । कीदृशाः सन्तः ? उरुशृङ्खलवेष्टिताङ्गाः-महाशृङ्खलावृतदेहाः । किं यावद् ? आपादकण्ठं-चरणगलं यावत् । पादाभ्यां प्रभृति गलप्रदेशं यावदित्यर्थः । तथा बृहन्निगडकोटिनिघृष्टजङ्घाः-महाप'.......................... गाढं-अतितराम् ॥४२॥
अधुना सर्वं मत्तकरिप्रभृतिभयापहार(रः)फलं स्तवपठनस्य स्तवकारः
प्राह
मत्तद्विपेन्द्रमृगराजदवानलाहि-सङ्ग्रामवारिधिमहोदरबन्धनोत्थम् । तस्याशु नाशमुपयाति भयं भियेव यस्तावकं स्तवमिमं मतिमानधीते ॥४३॥
तस्य-नरस्य मतिमताशु-(मतिमतः आशु)-शीघ्रं भयं-त्रासो विनाशंक्षयं भियेव-भयेवेन (भयेनेव) उपयाति-गच्छति, यो मतिमान्-बुद्धिमान् स्तवंस्तवनमिमं-प्रत्यक्षं अधीते-पठति । कथम्भूतं ? तावकं-भवदीयम् । मत्तद्विपेन्द्रमृगराजदवानलाहिसङ्ग्रामवारिधिमहोदरबन्धनोत्थं-क्षीबकरिराज-सिंह-दवाग्नि-सर्परण-समुद्र-जलोदर-संयमनप्रभवम् ॥४३॥
इदानीं स्तोत्रमालायाः कण्ठस्थितायाः फलमाह स्तवकारः, आत्मनाम च प्रदर्शयतिस्तोत्रस्रजं तव जिनेन्द्र ! गुणैर्निबद्धां
भक्त्या मया रुचिरवर्णविचित्रपुष्पाम् । धत्ते जनो य इह कण्ठगतामजस्रं
तं मानतुङ्गमवसा(शा) समुपैति लक्ष्मीः ॥४४॥ तं पुरुषं, कीदृशं ? मानतुझं-पूजामहान्तं अहङ्कारबृहन्तं वा । पुरुषस्याऽहङ्कारः प्रशस्यते२ - - - - - निरहङ्कारस्य लोके भस्मतुल्यत्वात्, १. पाठः त्रुटितः । २. पत्रं त्रुटितम् ।
Page #23
--------------------------------------------------------------------------
________________ डिसेम्बर-२००९ न परलोकमार्गे / लक्ष्मीः-श्रीः समुपैति-प्राप्नोति-आश्लिष्यति / कीदृशी ? अवसा(शा)-अपराधीना सती / यो जनो-नरो धत्ते-बिभर्ति / कां ? स्तोत्रस्रजंस्तवनमालाम् / कस्य ? तव-भवतः / हे जिनेन्द्र ! - सकलकेवलिनाथ ! / कथम्भूतां सतीं धत्ते ? कण्ठगतां-गलप्रदेशस्थिताम् / क्व ? इह-जगति / कथं? अजश्रं-अनवरतम् / कीदृशीं ? निबद्धां-र[चितां] - - - - - - - तव / कया ? भक्त्या-प्रकृष्टभावेन / केन ? मया-कळ / कीदृशीं ? विविधवर्णविचित्रपुष्पां-विविधा-नानाप्रकारा ये वर्णा-अक्षराणि, त एव विचित्राणि-नानारूपाणि पञ्चवर्णानि पुष्पाणि यस्यां सा तथोक्ता, ताम् / मालाऽपि सूत्रग्रथिता पञ्चवर्णजात्यादिपुष्पकलिता च कण्ठे-गलप्रदेशे ध्रियते // श्रीखण्डेल्लकगच्छसम्बन्धि-श्वेताम्बर श्रीशान्तिसूरिविरचितमानतुङ्गाचार्य-कविकृत-भक्तामराख्यस्तववृत्तिः परिसमाप्ता / -X 1. पाठः त्रुटितः /