________________
डिसेम्बर-२००९
नलिनीदलेषु-पद्मिनी पत्रेषु स्थितः । यथोदकबिन्दुर्विशिष्टाधारवशेन शोभां प्राप्तवान्, तथा मदीयमपि स्तवनं सुजनाधारत्वेन प्रसंशां(शंसां) प्राप्स्यति ॥८॥
न केवलं भवतः स्तवने (स्तवेन ?) सर्वदोषापगमः, कथापि दुरितं हन्ति, एतदाहआस्तां तव स्तवनमस्तसमस्तदोषं त्वत्संकथाऽपि जगतां दुरितानि हन्ति । दूरे सहस्त्रकिरणः कुरुते प्रभैव पद्माकरेषु जलजानि विकासभाञ्जि ॥९॥
आस्तां-तिष्ठतु तव स्तवनं-स्तोत्रम् । कीदृशम् ? अस्तसमस्तदोषंनिराकृति(त) सकलरागादिदोषगणं, त्वत्संकथाऽपि-भवद्वार्ताऽपि जगतांभुवनवर्त्तिप्राणिनां दुरितानि-दुःकृतानि निहन्ति-विनाशयति । अत्रार्थेऽर्थान्तरन्यासमाह -दूरे-विप्रकृष्टे तिष्ठतु । कोऽसौ ? सहस्रकिरणो-भानुः । कुरुते-विदधाति । कोऽसौ ? प्रभैव-दीप्तिरेव । कानि कुरुते ? जलजानिपद्मानि । कीदृशानि ? विकाशभाञ्जि-विकसितानि । केषु ? पद्माकरेषुपद्मखण्डेषु । रविस्थानीयं स्तवनं, प्रभातुल्या संकथेति ॥९॥
यश्च भक्त्या भवन्तं स्तौति स तवैव समो भवतीति दर्शयतिनात्यद्भुतं भुवनभूषण ! भूतनाथ !
भूतैर्गुणैर्भुवि भवन्तमभिष्टवन्तः । तुल्या भवन्ति भवतो ननु तेन किं वा
भूत्याऽऽश्रितं य इह नात्मसमं करोति ? ॥१०॥ तदेतन्नात्यद्भुतं-नाश्चर्यकारि यत् तुल्याः समानाः भवतः-तव भवन्तिजायन्ते । हे भूतनाथ !-प्राणिप्रभो !। क(की)दृशः ? भुवनभूषण !-जगज्जन्तुमण्डन ! किं कुर्वन्तः ? अभिष्टुवन्तः-नुवन्तः । कम् ? भवन्तं-त्वाम् । कस्याम् ? भुवि-पृथव्याम् । कैः ? गुणैर्ज्ञानादिभिः । कीदृशैः ? भूतैः-सद्भूतैः सत्यैः । अर्थान्तरन्यासमाह-ननु-अहो !, किंवा यथा (अथवा) किं प्रयोजनम् ?। केन ? तेन-प्रभुणा, य इह जगति [न]करोति-न विदधाति । कम् ? आश्रितम् । कीदृशम् ? आत्मसमं-आत्मसमानम् । कया ? भूत्या-श्रिया ॥१०॥
अतिशयरूपवत्त्वं भगवतो दर्शयितुमाहदृष्ट्वा भवन्तमनिमेषविलोकनीयं नान्यत्र तोषमुपजा( या )ति जनस्य चक्षुः ।