________________
अनुसन्धान-५०
विकृतिपथम् । कथम् ? मनागपि-स्तोकमपि । काभिः ? त्रिदशाङ्गनाभि:देवकान्ताभिः । अत्रार्थेऽर्थान्तरन्यासमाह-किं का(क)दाचित्-कस्मिंश्चित् काले मन्दरादिशिखरं-मेरुशृङ्ग चलितम् ? नैव कम्पितम् । केन? कल्पान्तकालमरुतायुगक्षयसमयवायुना । कीदृशेन ? चलिताचलेन-कम्पितापरगिरिणा । यादृशं मेरुशृङ्ग तादृशं भगवन्मनः ॥१५॥
प्रकास(श)कत्वादपूर्वदीपत्वं भगवतो वर्णयितुमाहनिर्दूमवर्त्तिरपवर्जिततैलपूरः
कृत्स्नं जगत्त्रयमिदं प्रकटीकरोषि । गम्यो न जातु मरुतां चलिताच[ला]नां
दीपोऽपरस्त्वमसि नाथ ! जगत्प्रकाशः ॥१६॥ हे नाथ ! स्वामिन् ! दीपः-प्रदीपः अपरो-ऽन्योऽपूर्वो असि-भवसि त्वम् । कीदृशः ? जगत्प्रकाशः-त्रिभुवनोद्योतकः । दीपो हि गृहैकदेशे प्रकाशको भवति । यतो न गम्यो-न पराभवनीयः । केषाम् ? मरुतां-वायूनाम् । कीदृशानाम् ? चलिताचलानां-कम्पितगिरीणाम् । कथम् ? जातु-कदाचिद् यथा । प्रकटीकरोषि-प्रकाशा(श)यसि । किं तत् ? इदं-प्रत्यक्षं जगत्त्रयं-भुवनत्रितयम् । किम्भूतम् ? कृत्स्नं-सर्वम् । कीड[श]स्त्वं दीपः ? निर्दूमवर्त्तिः-निर्गतौ धूम-वर्ती यस्य स तथोक्तः ॥१६॥
सूर्यादपि अधिकत्वं दर्शयितुमाहनाऽस्तं कदाचिदुपयासि न राहुगम्यः स्पष्टीकरोषि सहसा युगपज्जगन्ति । नाम्भोधरोदरनिरुद्धमहाप्रभावः सूर्यातिशायिमहिमाऽसि मुनीन्द्र ! लोके ॥१७॥
हे मुनीन्द्र ! – गणधरादिसाधुनाथ ! असि-भवसि त्वम् । कीदृशः? सूर्यातिशायिमहिमा-सूर्यातिशायी-सूरतिरस्कारी महिमा-महत्त्वं यस्य स तथोक्तः । यतो नास्तं-[न] तिरोध(धा)नत्वं कदाचिदुपयासि-उपगच्छसि । सूरो हि सन्ध्यासमये छन्नो भवति, त्वं पुनः सदा प्रकास(श)रूपः । तथा त्वं न राहुगम्यः-तमपराभवनीयो न भवति(सि) । रविश्च ग्रहणकाले तमसा पराभूयते । तथा त्वं सहसा-सन्ततं युगपद्-एककालं जगन्ति-त्रीणि भवनानि अधोमध्यमोर्ध्वरूपाणि स्पष्टीकरोषि-प्रकाशयसि । रविः पुनर्भुवनैकदेशं क्रमेण