Book Title: Bhaktamarstava Vrutti
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
डिसेम्बर-२००९
इदानीं समुद्रप्रतिष्ठानां यानपात्रारूढानां भगवच्चिन्तनान्मज्जनभयं न भवतीति दर्शयितुमाह कविः
अम्भोनिधौ क्षुभितभीषणनक्रचक्र
___पाठीनपीठभयदोल्बणवाडवाग्नौ । रङ्गतरङ्गशि[ख]रस्थितमानपात्रा
स्त्रासं विहाय भवतः स्मरणाद् व्रजन्ति ॥४०॥ नरा व्रजन्ति-गच्छन्ति-समुद्रमुल्लङ्गयन्तीत्यर्थः । किं कृत्वा ? विहायत्यक्त्वा । कं ? त्रासं-भयं मज्जनादेः । कुतो हेतोः ? स्मरणात्-चिन्तनात् । कस्य ? भवतः-तव । क्व ? अम्भोनिधौ-समुद्रे । कीदृशे ? क्षुभितभीषणनक्रचक्रपाठीनपीठभयदोल्बणवाडवाग्नौ-क्षुभिताश्चलिता भीषणा-भयानका ये नक्रचक्रपाठीनपीठाः-जीवविशेषाः, तैर्भयं-भीतिं ददाति स तथोक्तः, तथोल्बण-उद्भटो वाडवाग्निर्वरदावानलो यस्मिन् स तथोक्तः, पश्चात् पदद्वयस्य कर्मधारयः समासः, तस्मिन् । कीदृशाः सन्तः ? रङ्गत्तरङ्गशिखरस्थितयानपात्रा:-रङ्गन्त-श्चलन्तो ये तरङ्गाः-कल्लोलास्तेषां शिखरं-अग्रं तस्मिन् स्थितं यानपात्रं-प्रवहणं येषां ते तथोक्ताः, ईदृशा अपि ॥४०॥
इदानीं भगवतः पादपद्मरजःपीयूषशरीरावगुण्डनस्य नराणां फलं दर्शयति स्तवकारःउद्भतभीषणजलोदरभारभुग्नाः
सो(शो )च्यां दशामुपगताः श्च्युतजीविताशाः । त्वत्पादपङ्कजरजोऽमृतदिग्धदेहा
मा भवन्ति मकरध्वजतुल्यरूपाः ॥४१॥ मा-मनुष्या भवन्ति-जायन्ते । कीदृशाः ? मकरध्वजतुल्यरूपा:कामसमानाकाराः । कथम्भूताः सन्तः ? त्वत्पादपङ्कजरजोऽमृतदिग्धदेहाः - भवच्चरणपरागपीयूषम्रक्षितस(श)रीराः । पूर्व कीदृशाः सन्तः ? उपगताःप्राप्ताः । कां ? दशां-अवस्थाम् । कीदृशीं ? शोच्यां-शोचनीयां मरणयोग्याम् । किम्भूताः ? श्च्युतजीविताशा:-त्यक्तजीवनवाञ्छाः । तथोद्भूतभीषणजलोदरभारभुग्ना-उत्पन्नभयङ्करोदरव्याधिविशेषप्राग्भारकुटिलीभूताः ॥४१॥

Page Navigation
1 ... 19 20 21 22 23