Book Title: Bhaktamarstava Vrutti
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 22
________________ अनुसन्धान-५० अधुना स्तवकारो भगवन्नाममन्त्रस्मरणस्य बन्धनभयापहारफलमाहआपादकण्ठमुरुशृङ्खलवेष्टिताङ्गा गाढं बृहन्निगडकोटिनिघृष्टजङ्घाः । त्वन्नाममन्त्रमनिशं मनुजाः स्मरन्तः सद्यः स्वयं विगतबन्धभया भवन्ति ॥४२॥ मनुजा-मानवाः स्वयं-आत्मन एव विगतबन्धभया-अपगतबन्धनत्रासा भवन्ति-सन्ति । कथं ? सद्य:-शीघ्रतरम् । किं कुर्वन्तः-स्मरन्तः चिन्तयन्तः । कं? त्वन्नाममन्त्रं-भवदभिधानविद्याम् । कथं ? अनिसं(शं)-अनवरतम् । कीदृशाः सन्तः ? उरुशृङ्खलवेष्टिताङ्गाः-महाशृङ्खलावृतदेहाः । किं यावद् ? आपादकण्ठं-चरणगलं यावत् । पादाभ्यां प्रभृति गलप्रदेशं यावदित्यर्थः । तथा बृहन्निगडकोटिनिघृष्टजङ्घाः-महाप'.......................... गाढं-अतितराम् ॥४२॥ अधुना सर्वं मत्तकरिप्रभृतिभयापहार(रः)फलं स्तवपठनस्य स्तवकारः प्राह मत्तद्विपेन्द्रमृगराजदवानलाहि-सङ्ग्रामवारिधिमहोदरबन्धनोत्थम् । तस्याशु नाशमुपयाति भयं भियेव यस्तावकं स्तवमिमं मतिमानधीते ॥४३॥ तस्य-नरस्य मतिमताशु-(मतिमतः आशु)-शीघ्रं भयं-त्रासो विनाशंक्षयं भियेव-भयेवेन (भयेनेव) उपयाति-गच्छति, यो मतिमान्-बुद्धिमान् स्तवंस्तवनमिमं-प्रत्यक्षं अधीते-पठति । कथम्भूतं ? तावकं-भवदीयम् । मत्तद्विपेन्द्रमृगराजदवानलाहिसङ्ग्रामवारिधिमहोदरबन्धनोत्थं-क्षीबकरिराज-सिंह-दवाग्नि-सर्परण-समुद्र-जलोदर-संयमनप्रभवम् ॥४३॥ इदानीं स्तोत्रमालायाः कण्ठस्थितायाः फलमाह स्तवकारः, आत्मनाम च प्रदर्शयतिस्तोत्रस्रजं तव जिनेन्द्र ! गुणैर्निबद्धां भक्त्या मया रुचिरवर्णविचित्रपुष्पाम् । धत्ते जनो य इह कण्ठगतामजस्रं तं मानतुङ्गमवसा(शा) समुपैति लक्ष्मीः ॥४४॥ तं पुरुषं, कीदृशं ? मानतुझं-पूजामहान्तं अहङ्कारबृहन्तं वा । पुरुषस्याऽहङ्कारः प्रशस्यते२ - - - - - निरहङ्कारस्य लोके भस्मतुल्यत्वात्, १. पाठः त्रुटितः । २. पत्रं त्रुटितम् ।

Loading...

Page Navigation
1 ... 20 21 22 23