Book Title: Bhaktamarstava Vrutti
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 17
________________ डिसेम्बर-२००९ १७ हे जिनेन्द्र ! - सामान्यकेवलिनाथ ! यथा-येन प्रकारेण तव-भवतो विभूति:-ऐश्वर्यमभूद्-बभूव । कथम् ? इत्थं-अनेन पूर्वप्रकारेण । कस्मिन् ? धर्मोपदेशनविधौ-ज्ञानोत्पत्तिसमननन्तरचतुर्विधधर्मकथनकाले । तथा – तेन प्रकारेण नापरस्य-नान्यस्य बुद्धादेः । अत्रार्थेऽर्थान्तरन्यासमाह-यादृग्-यादृशी प्रभादीप्तिर्दिनकृतो-रवेर्भवति । कीदृशी ? प्रहतान्धकारा-नासि(शि)ततमाः तादृक्तादृशी । कुतो भवति ? ग्रहगणस्य-शुक्रादिवृन्दस्य । कीदृशः ? विकासिनोऽपिप्रकास(श)वतोऽपि । सूर्यतुल्यो भगवान्, शेषग्रहतुल्या बुद्धादयो देवाः ॥३३॥ तामेव दर्शयति भवतः-ते रूपं-मूर्तिवि(वि) भाति-शोभते । कथम् ? नितान्तंअतिशयेन। कीदृशम् ? अमलं-निर्दोषम् । तथोन्मयूखं-उद्गतकिरणजालं, तथोच्चैरशोकतरुसंश्रितं-उच्चतरु(र)कंकेक्लिवृक्षासन्नवतिनम् । कीदृशं ? स्पष्टोल्लसकिरणं प्रसरद्-व्यक्तरश्मिजालं, अत एवाऽस्ततमोवितानंनिराकृतान्धकारसंघातं । तथा पयोधर-पार्श्ववर्ति-मेघनिकटावस्थितम् ॥२८॥ तथा तव-भवतो वपुः-शरीरं विभ्राजते-विशेषेण शोभते । कीदृशं ? कनकावदातं-स्वर्णवर्णम् । क्व स्थितं ? सिंहासने-हरियुक्तभद्रपीठे । कीदृशे ? मणिमयूखशिखाविचित्रे-रत्नानाना(रत्नानां) किरणज्वालाविविधचित्रे । किमिव शोभते ? बिम्बमिव-मण्डलमिव । कस्य ? सहस्ररस्मे(श्मे):-आदित्यस्य । क्व स्थितम् ? तुङ्गोदयादिशिरसि-उच्चोदयाचलमस्तके । कीदृशम् ? वियद्विलसदंशु-लतावितानं-आकास(श)प्रसरत्-किरणवि(व)ल्लिसंघातम् ॥२९॥ ____ तव वपुः-भवतः शरीरं विभ्राजते-विविधं राजते । कीदृशं ? कुन्दावदात्तं(त)चलचामरचारुशोभं-कुन्दकुसुमनिर्मलं(ल) चञ्चलव्यजनसो(शो) भनश्रीकम् । तथा कलधौतकान्तं-सुवर्णकमनीयम् । किमिवाभाति ? तद(ट)मिववपु इव (?) । कीदृशं ? उच्चैः-उच्चम् । कस्य ? सुरगिरेः-मेरोः । तथा शातकौम्भं - सुवर्णमयम् । तथा उद्यच्छशाङ्कशुचिनिर्झरवारिधार-उद्यच्छशाङ्कवद्उद्गच्छच्चन्द्रस्येव शुचयो-निर्मला वारिधारा-जलराजयो यत्र तत् तथोक्तम् । चामरस्य साम्यं दर्शितम् ॥३०॥ तथा छत्रत्रयं-आतपत्रत्रयी तव-भवतो विभाति-विविधं शोभते । कीदृशं? शशाङ्ककान्तं-चन्द्रनिर्मलम् । तथोच्चैः स्थितं-उपरिव्यवस्थितम् । तथा

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23