Book Title: Bhaktamarstava Vrutti
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
डिसेम्बर-२००९
इदानीं पुरुषचतुष्टयरूपत्वं तद्गुणयोगेन भगवतो दर्शयितुमाहबुद्धस्त्वमेव विबुद्धा( था )र्चित ! बुद्धिबोधात्
___ त्वं शङ्करोऽषि( सि) भुवनत्रयशङ्करत्वात् । धाताऽसि धीर ! शिवमार्गविधेर्विधानाद्
___व्यक्तं त्वमेव भगवन् ! पुरुषोत्तमोऽसि ॥२५॥ हे भगवन् !-ऐश्वर्यादिगुणयुक्त ! त्वमेवाऽसि । कोऽसौ ? बुद्धो देवताविशेषः, बुद्ध्यते स्म तत्त्वमित्यन्वर्थत्वात् । कुतः ? बुद्धिबोधाद्-बुद्ध्याकेवलज्ञानेन सकलतत्त्वपरिच्छेदात् । कीदृश !? विबुधार्चित ! - स(श)क्रादि देवसंघातपूजित ! । तथा त्वं-भवान् शङ्करोऽसि-शिवो भवसि । कस्माद् ? भुवनत्रयशङ्करत्वाद्-जगत्त्रयसुखकारित्वात् । तथा हे धीर !-ज्ञानराजिन् ! धाताश्रेष्ठोऽसि-भवसि त्वम् । कुतः ? शिवमार्गविधेविधानाद्-मोक्षपथसृष्टेः करणात् । तथा त्वमेवाऽसि-भवसि । कीदृशः ? पुरुषोत्तमः-पुरुषाणां मध्ये उत्तमःउत्कृष्टः पुरुषोत्तमः सर्वनरप्रधान इत्यर्थः, अन्यत्र विष्णुः । कथम् ? व्यक्तंस्पष्टम् । पूर्वोक्तगुणैर्देवचतुष्टयमयत्वं दर्शितम् ॥२५॥
इदानीमनेकगुणैः कृत्वा भव(भगव)तोऽतिशायित्वख्यापनाय पुनः पुनर्नमस्कारमाह कविःतुभ्यं नमस्त्रिभुवनातिहराय नाथ ! तुभ्यं नमः क्षितितलामलभूषणाय । तुभ्यं नमस्त्रिजगतः परमेश्वराय तुभ्यं नमो जिन ! भवोदधिशोषणाय ॥२६॥
नमो-नमस्कारोऽस्तु । कस्मै ? तुभ्यं भवते । किम्भूताय ? त्रिभुवनार्तिहराय-त्रिजगज्जन्तुपीडानाशकाय हे नाथ ! - स्वामिन् !। तथा तुभ्यं नमोभवते नमस्कारो भवतु । कीदृशाय ? क्षितितलामलभूषणाय-भूतलनिर्मलाभरणाय । तथा तुभ्यं नमः पूर्ववत् । कीदृशाय ? परमेश्वराय-प्रधानप्रभाव(भवे) । कस्य ? त्रिजगतः-त्रिभुवनस्थजन्तूनां रक्षणादिसमर्थत्वात् । तथा तुभ्यं नमः पूर्ववत् । हे जिन ! - रागादिजेत: !। कीदृशाय ? भवोदधिशोषणाय-संसारसमुद्र[नि] शनाय, आत्मनोऽन्येषां च ॥२६॥
साम्प्रतं निःशेषगुणाश्रितत्वं दोषनिराकृतत्वं च भगवतो दर्शयितुमाह कविः
को विस्मयोऽत्र यदि नाम गुणैरशेषै

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23