Book Title: Bhaktamarstava Vrutti
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
डिसेम्बर-२००९
विष्णुशङ्करादय एव दृष्टा-अवलोकिताः, किं भवता दृष्टेन ?। यतो येषु हर्यादिषु दृष्टेषु हृदयं-मनः तोषं-प्रीति उपैति-गच्छति । क्व ? त्वयि-भवति, त्वय्येव प्रीतिं करोति, नान्यत्रेत्यर्थः । किं प्रयोजनं वीक्ष(क्षि)तेन-दृष्टेन ?। केन? भवता-त्वया । कस्याम् ? भुवि-पृथिव्याम् । येन भवद्वीक्षणेन-करणेन हेतुना वा नान्यो-ना[परो] मतो(नो)-मानसं हरति-रञ्जयति । क्व ? भवान्तरेऽपि । आस्तामिह जनम्नि(न्मनि), जन्मान्तरेऽपि । अनेन भगवति दृष्टे सति अन्यो न चित्ते विशति तथाविधगुणाभावादिति दर्शितम् ॥२१॥
साम्प्रतं सर्वजननीपुत्रातिशायित्वं भगवतो वर्णयतिस्त्रीणां शतानि शतशो जनयन्ति पुत्रान्
नान्या सुतं त्वदुपमं जननी प्रसूता । सर्वा दिशो दधति भानि सहस्त्ररस्मि(शिम)
प्राच्येव दिग् जनयति स्फुरदंशुजालम् ॥२२॥ जनयन्ति-प्रसवन्ति । कानि ? स्त्रीणां शतानि-बढ्यो योषितः । कान् ? पुत्रान्-सूनून् । कियतः ? शतशः-अनेकशतानि । केवलं त्वदुपमंभवत्समानं सुतं-पुत्रं न प्रसूता-न जनितवती । काऽसौ ? जननी-माता । किम्भूता? अन्या-मरुदेव्यपरा । अत्रार्थेऽर्थान्तरन्यासमाह-सर्वाः-सकला दिशा:आशा दधति-बिभ्रति । कानि ? भानि-नक्षत्राणि । सहस्ररस्मि(श्मि)-आदित्यं पुनः प्राच्येव-पूर्वैव दिग्-आसा(शा) जनयति-प्रसवति, नाऽन्या दिक् । कीदृशम् ? स्फुरदंशुजालं-प्रसरत्किरणनिकरम् । यादृशो रविस्तादृशो भगवान्, यादृशी प्राची तादृशी मरुदेवी भगवतीति ॥२२॥
इदानीं भगवतः परमपुरुषत्वं मृत्युज(अ)यत्वं मुक्तिमार्गत्वं च स्तवकारो वर्णयतित्वामामनन्ति मुनयः परमं पुमांस
मादित्यवर्णममलं तमसः पु(प)रस्तात् । त्वामेव सम्यगुपलभ्य जयं[ति] मृत्यु
नान्यः शिवः शिवपदस्य मुनीन्द्र ! पन्थाः ॥२३॥
१. अत्र टीका त्रुटिता ।

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23