Book Title: Bhaktamarstava Vrutti
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 11
________________ डिसेम्बर-२००९ सततं प्रकाशयति । तथा त्वं नाम्भोधरोदरनिरुद्धमहाप्रभावः-अम्भोधरामेघास्तेषामुदरं-कुक्षिः, तेन तस्मिन् वा निरुद्धो-ऽपनीतो महान्-बृहत् प्रभावःप्रतापो यस्य स तथोक्तः । आदित्यस्त्वेतद्विपरीतो भवति अतः सूर्यातिशायिमहिमा त्वम् ॥१७॥ __ इदानीं भगवतो मुखपद्मस्याऽपूर्वशशाङ्करूपतां स्तवकारो वर्णयतिनित्योदयं दलितमोहमहान्धकारं गम्यं न राहुवदनस्य न वारिदानाम् । विभ्राजते तव मुखाब्जमनल्पकान्ति विद्योतयज्जगदपूर्वशशाङ्कबिम्बम्॥१८॥ हे जिन ! तव मुखाब्जं-मुखकमलं विभ्राजते-विशेषेण विविधं वि(वा) द्योतते । कीदृशम् ? अनल्पकान्ति-गुरुदीप्ति गुरुकमनीयं च । किम्भूतं सद् ? अपूर्वशशाङ्कबिम्बं-अ[न]न्यचन्द्रमण्डलं, यतो नित्योदयं-सर्वदोदितम् । चन्द्रमण्डलं तु रात्र्युदयम् । तथा दलितमोहमहान्धकारं – दलितो-नासि(शि)तो मोह एव-अज्ञानमेव महान्धकारो-गुरुतमो येन तत् तथोक्तम् । चन्द्रबिम्बं तु मोहतमो विनाशयितुं न शक्तं भवति । तथा न गम्यं-न पराभवनीयम् । कस्य ? राहुवदनस्य-तमोमुखस्य । कर्तरि षष्टीयं, 'कृत्यानां कर्त्तरि चे'ति । तथा न वारिदानां-मेघानां गम्यं-पराभवनीयम् । तत्पराभवोत्तीर्णत्वात् । चन्द्रबिम्बं तु राहुमुखस्य मेघानां च गम्यं भवति, भक्षणादावरणाद्वा ॥१८॥ रात्रौ चन्द्रस्य दिने च रवे गवतो मुखचन्द्रे सति निरर्थकत्वं स्तवकारो वर्णयतिकिं शर्वरीषु शशिनाऽह्नि विवस्वता वा युष्मन्मुखेन्दुदलितेषु तमस्सु नाथ ! । निष्पन्नशालिवनशालिनि जीवलोके कार्य कियज्जलधरैर्जलभारननैः ? ॥१९॥ हे नाथ ! – स्वामिन् ऋषभ ! किं शशिना - किं प्रयोजनं चन्द्रेण? कासु ? शर्वरीषु-रात्रिषु । विवस्वता वा - आदित्येन वा किं प्रयोजनं ? क्व? [अह्नि]- दिने । न किञ्चित् । केषु सत्सु ? तमस्सु-ध्वान्तेषु । किम्भूतेषु ? युष्मन्मुखेन्दुदलितेषु-त्वद्वक्त्रचन्द्रविनासि(शि)तेषु । तमोविनाशनं हि चन्द्र-सूर्यमसोः (सूर्य-चन्द्रमसोः) कार्यं, तच्च त्वन्मुखचन्द्रेणैव कृतं, अतो निःप्रयोजनौ । तावदत्रार्थेऽर्थान्तरन्यासमाह-कियत् कार्य-किं प्रयोजनं, न किमपि

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23